पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

{{rh|left=१३०. center=वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-|right}=[ ३ विभूतिपाद-}


 न धर्मी त्र्यध्या धर्मास्तु त्र्यध्यानस्ते लक्षिता अलक्षितास्तत्र लक्षितास्तां तामवस्थां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः । यथैका [१]रेखा शतस्थाने शतं दश- स्थाने देशैका चैकस्थाने । यथा चैकत्वेऽपि स्त्री माता चोच्यते दुहिता च स्वसा चेति । उद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला; रिक्ताधाराः अपि सनामकः भवेयुः ।  अवस्थापरिणामे कौटस्<ref><=/ref>थ्यप्रसङ्गदोषः कैश्चिदुक्तः । कथम् । अध्वनो व्यापारण व्यवहितत्वात् । यदा धर्मः स्वव्यापारं न करोति तदाऽनागतो यदा करोति तदा वर्तमानो यदा कृत्वा निवत्तस्तदाऽतीत इत्येवं धर्मधर्मिणोर्लक्षणानामवस्थानां च कौटस्थ्यं प्राप्नोतीति परैर्दोष उच्यते ।। णोऽप्यन्यत्वप्रसङ्गः । स एष च नेष्यते तदनुगमानुभवविरोधादित्यत आह-न धर्मी त्र्यध्वा यतस्तदभिन्ना धर्मात्र्यधानः । धर्माणामध्वत्रययोगमेय स्फोरयति-ते लक्षिता अभिव्यक्ता वर्तमाना इति यावत् । अलक्षिता अनभिव्यक्ता अनागता अतीता इ(श्च)ति यावत् । तत्र लक्षितास्तां तामवस्थां बलवत्त्वदुर्बलत्वादिकां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः । अवस्थाशब्देन धर्मलक्षणावस्था उच्यन्ते । एतदुक्तं भवति-अनुभव एव हि धर्मिणो धर्मादीनां भेदाभेदी व्यवस्थापयति । नह्यैकान्तिकेऽभेदे धर्मादीनां धर्मिणो धर्मिरूपबद्धर्मादित्वम् । नाप्यैकान्तिके भेदे गवाश्ववद्धर्मादित्वम् । स चानुभवोऽनैकान्तिकत्वमवस्थापयन्नपि धर्मादिषूपजनापायधर्मकेष्वपि धर्मिणमेकमनुगमयन्धर्माश्च परस्परतो व्यावर्तयन्प्रत्यात्ममनुभूयत इति तदनुसारिणो वयं न तमतिवर्त्य स्वेच्छया धर्मानुभवान्व्यवस्थापयितुमीश्मह इति । अत्रैव लौकिक दृष्टान्तमाह- यथैका रेखेति । यथा तदेव रेखास्वरूपं तत्तत्स्थानापेक्षया शतादित्वेन व्यपदिश्यत एवं तदेव धर्मिरूपं तत्तद्धर्मलक्षणावस्थाभेदेनान्यत्वेन प्रतिनिर्दिश्यत इत्यर्थः । दार्ष्टान्तिकार्थं दृष्टान्तान्तरमाह-यथा चैकत्वेऽपीति । ___ अत्रान्तरे परोक्त दोषमुत्थापयति---अवस्थेति । अवस्थापरिणामे धर्मलक्षणावस्थापरिणामे कौटस्यदोषप्रसङ्ग उक्तौ धर्मिधर्मलक्षणावस्थानाम् । पृच्छति-कथस्मिति । उत्तरम्-अध्वनो व्यापारेणेति । दध्नः किल योऽनागतोऽध्वा तस्य व्यापारः क्षीरस्य वर्तमानत्वं तेन व्यवहितत्वाद्धेतोः । यदा धर्मों दधिलक्षणः स्वव्यापारं दाधिकाद्यारम्भं क्षीरे सन्नपि न करोति तदाऽनागतः । यदा करोति तदा वर्त- १ग. इ. च. ताश्च तां ता।२ म. दशैक।

  1. =घ.