नासौ दोषः । कस्मात् । गुणिनित्यत्वेऽपि गुणानां विमर्दवैचित्र्यात् । यथा संस्थानमादिमद्धर्ममात्रं शब्दादीनां गुणानां |
तत्रेदमुदाहरणं मृद्धर्मी पिण्डाकाराद्धर्माद्धर्मान्तरमुपसंपद्यमानो धर्मतः परिणमते घटाकार इति । घटाकारोऽनागतं लक्षणं |
मानः । यदा कृत्वा निवृत्तः सन्नेव स्वव्यापारादाधिकाद्यारम्भात्तदाऽतीत इति । एवं
त्रैकाल्येऽपि सत्त्वाद्धर्मधर्मिणोर्लक्षणानामवस्थानां च कौटस्थ्यं प्राप्नोति । सर्वदा सत्ता हि
नित्यत्वं, चतुर्णामपि च सर्वदा सत्वेऽसत्त्वे वा नोत्पादः, तावन्मात्रं च लक्षणं कूटस्थनित्यतायाः । नहि चितिशक्तेरपि कूटस्थ[१]नित्यायाः कश्चिदन्यो विशेष इति भावः ।
पारहरति-नासौ दोषः, कस्माद्गुणिनित्यत्वेपि गुणानां विमर्दोऽन्योन्याभिभाव्याभिभावकत्वं तस्य वैचित्र्यात् । एतदुक्तं भवति- यद्यपि सर्वदा सत्त्वं चतुर्णामपि
गुणिगुणानां तथाऽपि गुणविमर्दवैचित्र्येण तदात्मभूततद्विकाराविर्भावतिरोभावभेदेन परिणामशालितया न कौटस्थ्यम् । चितिशक्तेस्तु न स्वात्मभूतविकाराविर्भावतिरोभाव
इति कौटस्थ्यम् ।
यथाऽऽहु:--"नित्यं तमाहुर्विद्वांसो यत्स्वभावो न नश्यति" इति ।
विमर्दवैचित्र्यमेव विकारवैचित्र्ये हेतुं प्रकृतौ विकृतौ च दर्शयति-यथा संस्थानं
पृथिव्यादिपरिणामलक्षणमादिमद्धर्ममात्रं विनाशि तिरोभावि शब्दादीनां शब्दस्पर्शरूपरसगन्धतन्मात्राणां स्कार्यमपेक्ष्याविनाशिनामतिरोभाविनाम् । प्रकृतौ दर्शयति-
एवं लिङ्गमिति । तस्मिन्विकारसंज्ञा न त्वेवं विकारवती चितिशक्तिरिति भावः ।
तदेवं परीक्षकसिद्धां विकृतिं प्रकृतिं चोदाहृत्य विकृतावेव लोकसिद्धायां गुणविमर्दवैचित्र्यं धर्मलक्षणावस्थापरिणामवैचित्र्यहेतुमुदाहरति--तत्रेदमुदाहरणमिति । न चायं
नियमो लक्षणानामेवावस्थापरिणाम इति । सर्वेषामेव धर्मलक्षणावस्थाभेदानामवस्थाशब्द-
वाच्यत्वादेक एवावस्थापरिणामः सर्वसाधारण इत्याह--धर्मिणोऽपीति । व्यापकं, परि-
- ↑ १ ग. . छ. च. नां वि° ५ २ ख. नित्यतायां क° । ३ ज. प त । ४ ख. गुण ।