पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०.
[३ विभूतिपदे-
वाचस्पतिकृतटीकासंवलितव्यासभाग्यसमेतानि-


  न धर्मी ज्यध्वा धर्मास्तु ज्य्ध्वानस्ते लक्षिता अलक्षिता[१]स्तत्र

लक्षितास्तां तामवस्थां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽव.

स्थान्तरतो न द्रव्यान्तरतः । यथैका रेखा शतस्थाने शतं दश-

स्थाने दे[२] क्शैका चैकस्थाने । यथा चैकत्वेऽपि स्त्री माता चोच्यते

दुहिता च स्वसा चेति|


 अवस्थापरिणामे कौटस्थ्यप्रसङ्गदोपः कैश्विदुक्तः । कथम् ।

अध्वनो व्यापारेण व्यवहितत्वात् । यदा धर्मः स्वव्यापारं न

करोति तदाऽनागतो यदा करोति तदा वर्तमानो यदा कृत्वा

निवृत्तस्तदाऽतीत इत्येवं धर्मधर्मिणोर्लक्षणानामवस्थानां च

कौटस्थ्यं प्राप्नोतीति परैर्दोष उच्यते ।


णोऽप्यन्यत्वप्रसङ्गः । स एष च नेष्यते तदनुगमानुभवविरोधादित्यत आह-न धर्मी ज्यध्वा यतस्तदभिन्ना धर्मास्यध्धानः । धर्माणामध्वत्रययोगमेव स्फोरयति-ते लक्षिता अभिव्यक्ता वर्तमाना इति यावत् । अलक्षिता अनभिव्यक्ता अनागता अतीता इ(श्वे)ति यावत् । तत्र लक्षितास्तां तामवस्थाम् बलवत्वदुर्बलत्वादिकां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः । अवस्थाशब्देन धर्मलक्षणावस्था उच्यन्ते । एतदुक्तं भवति---अनुभव एव हि धर्मिणो धर्मादीनां भेदाभेदौ व्यवस्थापयति । नह्येकान्तिकेऽभेदे धर्मादीनां धर्मिणो धर्मिरूपवद्धर्मादित्वम् । नाप्यैकान्तिके भेदे गवाश्रव- वद्धर्मादित्वम् । स चानुभवोऽनैकान्तिकत्वमवस्थापयन्नपि धर्मादिषूजनापायधर्मकेष्वपि धर्मिणमेकमनुगमयन्धर्माश्व परस्परतो व्यावर्तयन्प्रत्यात्ममनुभूयत इति तदनुसारिणो वयं न तमतिवर्त्य स्वेच्छया धर्मानुभवान्व्यवस्थापयितुमीमह इति । अत्रैव लौकिकं दृष्टान्तमाह- यथैका रेखेति । यथा तदेव रेखास्वरूपं तत्तत्स्थानापेक्षया शतादित्वेन व्यपदिश्यत एवं तदेव धर्मरूपं तत्तद्धर्मलक्षणावस्थाभेदेनान्यत्वेन प्रतिनिर्दिश्यत इत्यर्थः । दान्तिकार्थ दृष्टान्तान्तरमाह-यथा चैकत्वेऽपीति

 अत्रान्तरे परोक्तम् दोषमुत्थापयति-अवस्थेति । अवस्थापरिणामे धर्मलक्षणाव. स्थापरिणामे कौटस्थ्यदोषप्रसङ्ग उक्तो धर्मिधर्मलक्षणावस्थानाम् । पृच्छति-कथ- मिति । उत्तरम्-अध्वनो व्यापारणेति । द्धनः किल योऽन,गतोऽध्या तस्य व्यापारः क्षीरस्य वर्तमानत्वं तेन व्यवहितत्वाद्धेतोः । यदा धर्मो दधिलक्षणः स्वव्या- पारं दाधिकाद्यारम्भं क्षीरे सन्नपि न करोति तदाऽनागतः । यदा कति तदा वर्त-

  1. १ ग. घ. ह.
    च. ताश्च तां ता।
  2. २ म. दशैक।