पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० १३]
१२९
पातञ्जलयोगसूत्राणि

 

प्रान्पोतीति परैर्दोषश्चोग्रत इति । तस्य परिहारः--धर्माणां धर्म-
त्वमप्रसाध्यम् । सति च धर्मत्वे लक्षणभेदोऽपि वाच्यो न वर्त-
मानसमय एवास्य धर्मत्वम् । एवं हि न चित्तं रागधर्मक
स्यात्क्रोधकाले रामस्यासमुदाचारादिति ।
 
किंच प्रयाणां लक्षणानां युगपदेकस्यां व्यक्तौ नास्ति
संभवः । कमेण तु स्वव्यञ्जकाअनस्य भावो भवेदिति । उक्तं
च रूपातिशया वृत्त्यतिशया विरुध्यन्ते, सामान्यानि त्वति-
शयैः सह प्रवर्तन्ते । तस्मादसंकरः । यथा रागस्यैव कचित्सम-
दाचार इति न तदानीमन्यत्राभावः किंतु केवलं सामान्येन सम-
न्वागत इत्यस्ति तदा तत्र तस्य भावः । तथा लक्षणस्येति ।

[१] [२]


  दुत्पादप्रसङ्ग इति भावः । परिहरति-तस्य परिहार इति । वर्तमानतैव हि धर्मा- णामनुभवसिद्धा ततः प्राक्पश्चात्कालसंबन्धमवगमयति । न खल्वसदुत्पद्यते न च सद्वि- नश्यति । सदिदमाह-एवं हि न चित्तमिति । क्रोधोत्तरकालं हि चित्तं रागधर्मकम- नुभूयते । यदा च रागः क्रोधसमयेऽनागतत्वेन नाऽऽसीत्कथमसावु-पद्येतानुःपन्नश्च कथ- मनुभूयेतेति ।

 भवत्वेवं तथाऽपि कुतोऽध्वनामसंकर इति पृच्छते-किचेति । किं कारणमसं- करे । चः पुनरर्थे । उत्तरमाह-त्रयाणां लक्षणानां युगपन्नास्ति संभवः । कस्मिन्नेकस्यां चित्तवृत्तौ । क्रमेण तु लक्षगानामेकतमस्य खव्यञ्जकाञ्जनस्य भावो भवेत्संभवेलक्ष्याधीननिरूपणतया लक्षणानां लल्याकारेण तद्वत्ता । अत्रैव पञ्च. शिखाचार्यसंमतिमाह--उक्तं चेति । एतच्च प्रागेव व्याख्यातम् । उपसंहरति-- तस्मादिति । आविर्भावतिरोभावरूपविरुद्वधर्मसंसर्गादसंकरोऽधनामिति । दृष्टान्तमाह- यथा रागस्येति । पूर्व क्रोधस्य रागसंबन्धावगमो दर्शित इति । इदानीं तु विषयान्त. रवर्तिनो रागस्य विषयान्तरवर्तिना रागान्तरेग संबन्वावगम इति । दाटन्तिकमाह-- तथा लक्षणस्येतीति

 ननु सत्यप्यनेकान्ताभ्युपगमेऽभेदोऽस्तति धर्मलक्षणावस्थान्यत्वे तदभिन्नस्य धर्मि-


  1. १ ग. घ.ङ. °व परस्परेण वि° । १ ख. ज. झ. 'स्येति ।
  2. १७