पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू० ६-७] पातञ्जलयोगसूत्राणि। इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागातद्विपया सामा- न्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् । फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः । प्रतिसंवेदी पुरुष इत्युपरिष्टादुपपादयिष्यामः। ___ अनुमेयस्य तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः संवन्धो यस्तद्विषया सामान्यावधारणप्रधाना वृत्तिरनुमानम् । धिगततत्त्वबोधः पौरुषेयो व्यवहारहेतुः प्रमा । तत्करणं प्रमाणम् । विभागवचनं चः न्यूनाधिकसंख्याव्यवच्छेदार्थम् । तत्र सकलप्रमाणमूलत्वात्प्रथमतः प्रत्यक्षं लक्षयति--- इन्द्रियेति । अर्थस्येति समारोपितत्वं निषेधति । तद्विषयेति बाह्यगोचरतया ज्ञाना. कारगोचरत्वं निवारयति । चित्तवर्तिनो ज्ञानाकारस्य वाह्यज्ञेयसंबन्धं दर्शयति- वाह्यवस्तूपरागादिति । व्यवहितस्य तदुपरागे हेतुमाह-इन्द्रियप्रणालिकयेति । सामान्यमात्रमर्थ इत्येके । विशेषा एवेत्यन्ये । सामान्यविशेषतद्वत्तेत्यपरे वादिनः प्रतिप. न्नास्तन्निरासायाऽऽह- सामान्यविशेषात्मन इति । न तद्वत्ता किं तु तादात्म्यमर्थस्य । एतच्चैकान्तानभ्युपगम इत्यत्र प्रतिपादयिष्यते । अनुमानागमविषयात्प्रत्यक्षविषयं व्यवच्छि- नत्ति-विशेषावधारणप्रधानेति । यद्यपि सामान्यमपि प्रत्यक्षे प्रतिभासते तथाऽपि. विशेषं प्रत्युपसर्जनीभूतमित्यर्थः । एतच्च साक्षात्कारोपलक्षणपरम् । तथा च विवेकख्याति- रपि लक्षिता भवति । फलविप्रतिपत्तिं निराकरोति-फलं पौरुषेयश्चित्तवृत्तिबोध इति । ननु पुरुषवर्ती बोधः कथं चित्तगताया वृत्तेः फलम् । न हि खदिरगोचरव्यापारेण पस्शुना पलाशे छिदा क्रियत इत्यत आह-अविशिष्ट इति । न हि पुरुषगतो बोधो जन्यते, अपि तु चैतन्यमेव बुद्धिदर्पणप्रतिबिम्बितं बुद्धिवृत्याऽर्थाकारया तदाकारतामापद्यमानं. फलम् । तच्च तथाभूतं बुद्धरविशिष्टं बुद्धयात्मकं, वृत्तिश्च बुद्धयात्मिकेति. सामानाधिकर- ण्याद्युक्तः प्रमाणफलभाव इत्यर्थः । एतच्चोपपादयिष्याम इत्याह-प्रतिसंवेदीति । प्रत्यक्षानन्तरं प्रवृत्यादिलिङ्गकश्रोतृबुद्धयनुमानप्रभवसंबन्धदर्शनसमुत्थतयाऽऽगमस्थानुमा- नजत्वादनुमितस्य चाऽऽगमेनान्वाख्यानादागमात्प्रागनुमानं लक्षयति-अनुमेयस्येति । जिज्ञासितधर्मविशिष्टो धर्म्यनुभेयस्तस्य तुल्यजातीयाः साध्यधर्मसामान्येन. समानार्थाः सप- क्षास्तेष्वनुवृत्त इत्यनेन विरुद्धत्वमसाधारणत्वं च साधनधर्मस्य निराकरोति । भिन्नजातीया असपक्षास्ते च. सपक्षादन्ये तद्विरुद्धास्तदभाववन्तश्च, तेभ्यो व्यावृत्तस्तदनेन साधारणानै- कान्तिकत्वमपाकरोति । संबध्यत इति संबन्धो लिङ्गमनेन पक्षधर्मतां दर्शयन्नसिद्धतां निवारयति । तद्विषया तन्निबन्धना, “पिञ् बन्धने, " [ धा-पा० ५ ] इत्यस्माद्विषयपद- व्युत्पत्तेः । सामान्यावधारणेति प्रत्यक्षविषयाद्वयवच्छिनत्ति । संबन्धसंवेदनाधीनजन्मानुमानं