पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

फलकम्:=rh१० वाचस्पतिकृतीकासंवलितव्यासभाष्यसमेतानि-

[१ समाधिपादे-
क्लिष्टप्रवाहपतिता अप्यक्लिष्टाः । क्लिष्टच्छिद्रेष्वष्यक्लिष्टा भवन्ति ।
अक्लिष्टच्छिद्रेषु क्लिष्टा इति । तथाजातीयकाः संस्कारा वृत्तिभिरेव
क्रियन्ते। संस्कारैश्च वृत्तय इति । एवं वृत्तिसंस्कारचक्रमनिशमाव-
र्तते। तदेवंभूतं चित्तमवसिताधिकारमात्मकल्पेन व्यवतिष्ठते प्रलयं
वा गच्छतीति । ताः क्लिष्टाश्वाक्लिष्टाश्च पञ्चधा वृत्तयः॥ ५॥
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥६॥
प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥

सत्त्वपुरुषविवेकविषया यतोऽत एव गुणाधिकारविरोधिन्यः । कार्यारम्भणं हि गुणानाम- धिकारो विवेकख्यातिपर्यवसानं च तदिति चरिताधिकाराणां गुणानामधिकार वीिरुन्धन्तीति । अतस्ता अक्लिष्टाः प्रमाणप्रभृतयो वृत्तयः । स्यादेतद्वीतरागजन्मादर्शनात्क्लिष्टवृत्तय एव सर्व प्राणभृतः । न च क्लिष्टवृत्तिप्रवाहे भवितुमर्हन्त्यक्लिष्टा वृत्तयो न चामूषां भावेऽपि कार्यकारिता विरोधिमध्यपातिवात्तस्मादिक्लष्टानामक्लिष्टाभिनिरोधस्तासां च वैरा- ग्यण परणेति मनोरथमात्रमित्यत आह-क्लिष्टप्रवाहेति । आगमानुमानाचार्योपदेशपरि- शीलनलब्धजन्मनी अभ्यासवैराग्ये क्लिष्टच्छिद्रमन्तरा तत्र पतिताः स्वयमक्लिष्टा एव यद्यपि क्लिष्टप्रवाहपतिताः । न खलु शालग्रामे किरातशतसंकीर्णे प्रतिवसन्नपि ब्राह्मणः किरातो भवति । अक्लिष्टच्छिद्रेष्विति निदर्शनम् । क्लिष्टान्तरवर्तितया च क्लिष्टाभिरनभिभूता अक्लिष्टाः । स्वसंस्कारपरिपाकक्रमेण क्लिष्टा एव तावदभिभवन्तीत्याह---तथाजातीयका इति । अक्लिष्टाभिर्वृत्तिभिरक्लिष्टाः संस्कारा इत्यर्थः । तदिदं वृत्तिसंस्कारचक्रमनिशमावर्तते, आ निरोधसमाधेः । तदेवंभूतं चितं निरोधावस्थं संस्कारशेषं भूत्याऽऽमकल्पेनावतिष्ठत इत्यापाततः प्रलयं वा गच्छतीति परमार्थतः । पिण्डीकृत्य सूत्रार्थमाह---ता इति । पञ्चधेत्यर्थकथनमात्रं न तु शब्दवृत्तिव्याख्यानम् । तयपः प्रकारेऽस्मरणात् ॥ ५ ॥ ताः स्वसंज्ञाभिरुद्दिशति-प्रमाणविपर्यविकल्पनिद्रास्मृतयः । निर्देशे यथावचनं विग्रहश्वार्थे द्वंद्वः समास इतरेतरयोगे । यथा-अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या [ २।५ ] इत्युक्तेऽपि न दिड्योहालातचक्र दिविभ्रमा व्युदस्यन्त एवमिहापि प्रमाणाद्यभिधानेऽपि वृत्त्यन्तरसद्भावशङ्का न व्युदस्यतेति तन्निरासाय वक्तव्यं पञ्च तथ्य इति । एतावत्य एव वृत्तयो नापराः सन्तीति दर्शितं भवति ॥ ६॥ तत्र प्रमाणवृत्तिं विभजन्सामान्यलक्षणमाह-प्रत्यक्षानुमानागमाः प्रमाणानि । अन- १ ग. घ. इ. च. छ. यः ॥ ५॥ तत्र-।