पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू०५)
पातञ्जलयोगसूत्राणि ।

पुरुषस्य स्वामिनः । तस्माञ्चित्तवृत्तिबोधे पुरुषस्यानादिः संवन्धो हेतुः ॥ ४ ॥ ताः पुननिरोद्धव्या बहुत्वे सति चित्तस्य----

वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ ५॥

क्लेशहेतुकाः कर्माशयमचये क्षेत्रीभूताः क्लिष्टाः। . ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः ।


चेति सिद्धम् । गनु स्वस्वामिसंबन्धो भोगहेतुरविद्यानिमित्तोऽविद्या तु किंनिमित्तान खल्लनिमित्तं कार्यमुत्पद्यते । यथाऽऽहु:---

___

स्वप्नादिवदविद्यायाः प्रवृत्तिस्तस्य किंकृता "।

इति शङ्कामुपसंहारम्याजेनोद्धरति----तस्माचित्तवृत्तिबोधे शान्तधोरमुढाकारचि. त्तवृत्युपभोगेऽनाद्यविद्यानिमित्तत्वादनादिः संयोगो हेतुरविद्यावासनयोश्च संतानो बीजा- करसंतानवदनादिरति भावः ॥ ४॥  स्यादेतत्पुरुषो हि शक्य उपदिश्यते । न च वृत्तिनिरोधो वृत्तीरविज्ञाय शक्यः । न च सहस्त्रेणापि पुरुषायुपौलमिमाः कश्चित्परिगणयितुम् । असंख्याताश्च कथं निरोद्धव्या इत्याशङ्कय तासामियत्तास्वरूपप्रतिपादनपरं सूत्रमवत्तारयति---ताः पुनर्निरोद्धव्या बहुत्वे सति चित्तस्य-वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः । क्तिरूपोऽवयव्येकस्तस्य प्रमाणादयोऽवयवाः पञ्च । ततस्तदवयवा पञ्चतयी पञ्चाययवा वृत्तिर्भवति । ताश्च वृत्तय- चैत्रमैत्रादिचित्तभेदाह्वय इति बहुवचनमुपपन्नम् । एतदुक्तं भवति-चैत्रो वा मैत्री वाऽन्यो वा कश्चित्सर्वेषामेव तेपो वृत्तयः पञ्चतय्य एवं नाधिका इति । चित्तस्येति चैकब- चनं जात्यभिप्रायम् । चित्तानामिति तु द्रष्टव्यम् । तासामवान्तरविशेषमनुष्ठानोपयोगिनं दर्शयति---क्लिष्टाक्लिष्टा इति । अक्लेिष्ठा उपादाय क्लिा निरोद्धव्यास्ता अपि परेश चैराग्येणेति । अस्य व्याख्यानं--क्लेशहेतुका इति । क्लेशा अस्मितादयो हेतवः प्रवृत्ति- कारणं यासां वृत्तीनां तास्तथोक्ताः । यद्वा पुरुषार्थप्रधानस्य रजस्तमोमयीनां हि वृत्तीना क्लेशकारणत्वेन क्लेशायव प्रवृत्तिः । क्लेशः क्लिष्टं तदासामस्तीति लिष्टा इति । यत एवं क्लेशोपार्जनार्थममूपां मवृत्तिरत एवं कर्माशयप्रचये क्षेत्रीभूताः । प्रमाणादिना खल्वयं प्रति. पत्ताऽर्थमवसाय तत्र सक्तो द्विष्ठो वा कर्माशयमाचिनोतीति भवन्ति धर्मधर्मप्रचयप्रसत्रभू. मयो वृत्तयः लिष्ठा इति ।  अक्लिष्टा ब्याचष्टे----ख्यातिविषया इति । विधुतरजस्तमसो बुद्धिसत्वस्य पशान्त. वाहिनः प्रज्ञाप्रसादः ख्यातिस्तया विषयिण्मा तद्विषयं सत्वपुरुषविवेकमुपलक्षयति । तेन १ ख. छ. 'या अति ।