पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ १ समाधिपादे
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि

वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ १ समाधिपादे- व्युत्थाने याश्चित्तवृत्तयस्तदविशिष्टवृत्तिः पुरुषः । तथा च सूत्रम्-' एकमेव दर्शनं ख्यातिरेव दशेनम् । इति । चित्तम- यस्कान्तमणिकल्पं संनिधिमात्रोपकारि दृश्यत्वेन स्वं भवति

 अभिधा वृत्तयो यस्य पुरुषस्य स तथोक्तः । सारूप्यमित्यत्र सशब्द एकपर्यायः । एतदुक्तं भवति--जपाकुसुमस्फटिकयोरिव बुद्धिपुरुषयोः संनिधानादभेदग्रहे बुद्धिवृत्तीः पुरुषे समारोप्य शान्तोऽस्मि दुःखितोऽस्मि मूढोऽस्मीत्यध्यवस्यति । यथा मलिने दर्पणतले प्रतिबिम्बितं मुखं मलिनमारोप्य शोचत्यात्मानं मलिनोऽस्मीति । यद्यपि पुरुषसमारोपोऽपि शब्दादिविज्ञानवबुद्धिवृत्तिर्यद्यपि च प्राकृतत्वेनाचिद्रूपतयाऽनुभाव्यातथाऽपि बुद्धेः पुरुषत्वमापादयन्पुरुषवृत्तिरिवानुभव इवावभासते । तथा चायमविपर्ययोऽप्यात्मा विपर्यय- वानिवाभोक्ताऽपि भोक्तेव विवेकख्यातिरहितोऽपि तत्सहित इव विवेकख्यात्या प्रकाशते । एतच्च "चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम्" [४।२२ ] इत्यत्र "सत्त्व. पुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः” [३।३५] इत्यत्र चेपपादयिष्यते । एतच्च मतान्तरेऽपि सिद्धमित्याह-तथा चेति । पञ्चशिखाचार्यस्य सूत्रम् " एकमेव दर्शनं ख्यातिरेव दर्शनम् " इति । ननु कथमेकं दर्शनं यावता बुद्धेः शब्दादिविषया विवेक- विषया च वृत्तिः प्राकृततया जडत्वेनानुभाव्या दर्शनं ततोऽन्यत्पुरुषस्य चैतन्यमनुभवौो दर्शनमित्यत आह-ख्यातिरेव दर्शनमिति । उदपव्ययधर्मिणी वृत्तिं ख्यातिं लौकिकी- मभिप्रेत्यैतदुक्तम्-एकमेवेति । चैतन्यं तु पुरुषस्य स्वभावो न ख्यातेः । तत्तु न लोक- प्रत्यक्षगोचरोऽपि त्यागमानुमानगोचर इत्यर्थः । तदनेन व्युत्थानावस्थायां मूलकारणमविद्यां दर्शयता तद्धेतुकः संयोगो भोगहेतुः स्वस्वामिभावोऽपि सूचित इति तमुपपादयन्न ह- चित्तं स्वं भवति पुरुषस्य स्वामिन इति संबन्धः । ननु चित्तजनितमुपकारं भजमानो हि चेतनश्चित्तस्येशिता । न चास्य तज्जनितोपकारसंभवस्तदसंबन्धादनुपकार्यत्वात्तत्संयोग. तदुपकारभागित्वे परिणामप्रसङ्गादित्यत आह-अयस्कान्तमणिकल्पं संनिधिमात्रोप- कारि दृश्यत्वेनेति । न पुरुषसंयुक्तं चित्तमपि तु तत्संनिहितम् । संनिधिश्च पुरुषस्य न देशतः कालतो वा तदसंयोगास्किंतु योग्यतालक्षणः । अस्ति च पुरुषस्य भोक्तशक्तिश्चित्तस्य भोगशक्तिः । तदुक्तम्-दृश्यत्वेनेति । शब्दाद्याकारपरिणतस्य भोग्यत्वेनेत्यर्थः । भोगश्च यद्यपि शब्दाद्याकारा वृत्तिश्चित्तस्य धर्मस्तथाऽपि चित्तचैतन्ययोरभेदसमारोपावृत्तिसारूप्या- त्पुरुषस्येत्युक्तम् । तस्माचित्तेनासंयोगेऽपि तजनितोपकारभागिता पुरुषस्यापरिणामिता १ ज. ख्यातेरन्यत् । त° । झ. ख्यातिः । त । २ ख. तेः । चैतन्यं तु न ।