पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० ३-४]
पातञ्जलयोगसूत्राणि ।

 सदबस्थे चेतसि विषयाभावाबुद्धिबोधात्मा पुरुषः किंस्त्र- भाव इति--

तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३ ॥

 स्वरूपप्रतिष्ठा तदानीम् चितिशक्तिर्यथा कैवल्ये । व्युत्थानचित्ते तु सति तथाsपि भवन्ती न तथा ॥ ३॥ कथं तर्हि, दर्शितविषयत्वात्-

वृत्तिसारूप्यमितरत्र ॥ ४॥ ·

 __ संप्रत्युत्तरसूत्रमवतारयितुं चोदयति-तदवस्थे चेतसीति । किमाक्षेपे । तत्तदाकारप- रिणतबुद्धिबोधात्मा खल्वयं पुरुषः सदाऽनुभूयते न तु बुद्धिबोधरहितोऽतोऽस्य पुरुषस्य बुद्धिबोधः स्वभावः सवितरिव प्रकाशः । न च संस्कारशेष चेतसि सोऽस्ति । न च स्वभावमपहाय भावो वर्तितुमर्हतीति भावः । स्यादेतत् । संस्कारशेषामपि बुद्धिं कस्मा. त्पुरुषो न बुध्यत इत्यत आह --विषयाभावादिति । न बुद्धिमात्रं पुरुषस्य विषयोऽपि तु पुरुषार्थवती बुद्धिः । विवेकख्यातिविषयभोगौ च पुरुषार्थों । तो च निरुद्धावस्थायां न स्त इति सिद्धो विषयाभाव इत्यर्थः । सूत्रेण परिहरति--तदा द्रष्टुः स्वरूपेऽवस्थानम् । स्वरूप इत्यारोपितं शान्तधोरमूढस्वरूपं निवर्तयति । पुरुषस्य हि चैतन्यं स्वरूपमनौ- पाधिकं न तु वुद्धिबोधः शान्तादिरूप औपाधिको हि स स्फटिकस्येव स्वभावस्वच्छधव- लस्य जपाकुसुमसंनिधानोपाधिररुणिमा । न चोपाधिनिवृत्तावुरपितनिवृत्तिरतिप्रसङ्गादिति भावः । स्वरूपस्य चाभेदेऽपि भेदं विकल्प्याधिकरणभाव उक्त इति । अयमेवार्थो भाष्यकृता द्योत्यते-स्वरूपप्रतिष्ठेति । तदानीं निरोधावस्थायां न व्युत्थानावस्थाया- मिति भावः । स्यादेतद्युत्थानावस्थायामप्रतिष्ठिता स्वरूपे चितिशक्तिनिरोधावस्थायां प्रतितिष्ठन्ती परिणामिनी स्यात् । व्युत्थाने वा स्वरूपप्रतिष्ठाने व्युःथाननिरोधयोरविशेष इत्यत आह --व्युत्थानचित्ते स्विति । न जातु कूटस्थनित्या चितिशक्तिः स्वरूपा- च्च्यवते तेन यथा निरोधे सथैव व्युत्थानेऽपि । न खलु शुक्तिकायाः प्रमाणविपर्ययज्ञान- गोचरत्वेऽपि स्वरूपोदयव्ययौ भवतः । प्रतिपत्ता तु तथाभूतमप्यतथात्वेनाभिमन्यते । निरोधसमाधिमपेक्ष्य संप्रज्ञातोऽपि व्युत्थानमेवेति ॥ ३ ॥ __ सूत्रान्तरमवतारयितुं पृच्छति--कथं तहीति । यदि तथा भवन्ती न तथा केन तर्हि प्रकारेण प्रकाशत इत्यर्थः । हेतुपदमध्याहृत्य सूत्रं पठति-दर्शितविषयत्वात्ति- सारूप्यमितरत्र । इतरत्र व्युत्थाने याश्चित्तवृत्तयः शान्तघोरमूढास्ता एवाविशिष्टा १ ख. ज. रयंश्वोइ । २ ख. ज. °थाऽपि भ ।