पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२८ वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [३ विभूतिपादे- लोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात् । अपेतमप्यस्ति विनाशप्रतिषेधात् । संसर्गाचास्य सौक्ष्म्यं, सौक्ष्म्याञ्चानुपलब्धिरिति । लक्षणपरिणामो धर्मोऽध्वसु वर्तमानोऽतीतोऽतीतलक्षणयु- क्तोऽनागतवमानाभ्यां लक्षणाभ्यामवियुक्तः । तथाऽनागतोऽ. नागतलक्षणयुक्तो वर्तमानातीताभ्यां लक्षणाभ्यामवियुक्तः । तथा वर्तमानो वर्तमानलक्षणयुक्तोऽतीतानागताभ्यां लक्षणाभ्यामवियुक्त इति । यथा पुरुष एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवतीति । __ अत्र लक्षणपरिणामे सर्वस्य सर्वलक्षणयोगादध्वसंकरः कस्मान्नित्यत्वप्रतिरोधात्प्रमाणेन । यदि हि घटो व्यक्ते र्नीपेयात्कपालशर्कराचूर्णादिष्ववस्थास्वपि व्यक्तो घट इति पूर्ववदुपलब्ध्यर्थक्रिये कुर्यात्तस्मादनित्यं त्रैलोक्यम् । अस्तु तर्ह्यनित्यमेवोपलब्ध्यर्थक्रियारहितत्वेन गगनारविन्दवदतितुच्छत्वादित्यत आह-अपेतमप्यस्ति, नात्यन्ततुच्छता येनैकान्ततोऽनित्यं स्यादित्यर्थः । कस्माद्विनाशप्रतिषेधात्प्रमाणेन । तथाहि यत्तुच्छं न तत्कदाचिदप्युपलब्ध्यर्थक्रिये करोति । यथा गगनारविन्दम् । करोति चैतत्रैलोक्यं कदाचिदुपलक्ष्यर्थक्रिये इति । तथोत्पत्तिमद्द्रव्यत्वधर्मलक्षणावस्थायो- गित्वादयोऽप्यत्यन्ततुच्छगगननलिननरविषाणादिव्यावृत्ताः सत्त्वहेतव उदाहार्याः । तथाच धर्मी नात्यन्तं नित्यो येन चितिशक्तिवत्कटस्थनियः स्यास्किंतु कथंचिन्नित्यः । तथाच परिणामीति सिद्धम् । एतेन मृत्पिण्डाद्यवस्थासु कार्याणां घटादीनामनागतानां सत्त्वं वेदितव्यम् । स्यादेतत् । अपेतमपि चेदस्ति कस्मात्पूर्ववन्नोपलभ्यत इत्यत आह- संसर्गात्स्वकारणलयात्सौक्ष्म्यं दर्शनानर्हत्वं ततश्चानुपलब्धिरिति । तदेवं धर्मपरिणामं समर्थ्य लक्षणपरिणाममपि लक्षणानां परस्परानुगमनेन समर्थयते- लक्षणपरिणाम इति । एकैकं लक्षणं लक्षणान्तराभ्यां समनुगतमित्यर्थः । नन्वेकलक्षणयोगे लक्षणान्तरे नानुभूयेते तत्कथं तद्योग इत्यत आह-यथा पुरुष इति । नह्यनुभवाभावः प्रमाणसिद्धमपलपति, तदुत्पाद एव तत्र तत्सद्भावे प्रमाणमसत उत्पादासंभवान्नरविषाणवदिति । परोक्तं दोषमुत्थापयति-अत्र लक्षणपरिणाम इति । यदा धर्मो वर्तमानस्तदैव यद्यतीतोऽनागतश्च तदा त्रयोऽप्यध्वानः संकीर्येरन्ननुक्रमेण चाध्वनां भावेऽस. १ख. ज. सदेत।