पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० १३]
१२७
पातञ्जलयोगसूत्राणि ।


धर्मिविक्रियैवैषा धर्मद्वारा प्रपञ्च्यत इति । तत्र धर्मस्य धर्मिणि वर्तमानस्यैवाध्वस्वतीतानागतवर्तमानेषु भावान्यथात्वं भवति न तु द्रव्यान्यथात्वम् । यथा सुवर्णभाजनस्य भित्त्वाऽन्यथाक्रिय- माणस्य भावान्यथात्वं भवति न सुवर्णान्यथात्वमिति ।

अपर आह-धर्मानभ्यधिको धर्मी पूर्वतत्त्वानतिक्रमात् ।

पूर्वापरावस्थाभेदमनुपतितः कौटस्थ्येनैव परिवर्तेत यद्यन्वयी स्यादिति ।

अयमदोषः । कस्मात् । एकान्ततानभ्युपगमात् । तदेतत्रै-


त्यत आह-धर्मद्वारेति । धर्मशब्देन धर्मलक्षणावस्थाः परिगृह्यन्ते । तद्द्वारेण धर्मिण एवं विक्रियेत्येका चासंकीर्णा चै । तद्द्वाराणामभेदेऽपि * धर्मिणः परस्परसंकरात् । + ननु धर्माणामभिन्नत्वे x धर्मिणोऽध्वनां च भेदे धर्मिणोऽनन्यत्वेन धर्मेणापीह धर्मिव- द्भवितव्यमित्यत आह-तत्र धर्मस्येति । भावः संस्थानभेदः । सुवर्णादेर्यथा भाज- नस्य रुचकस्वस्तिकव्यपदेशभेदो भवति तन्मात्रमन्यथा भवति न तु द्रव्यं सुवर्णमसुवर्ण- तामुपैति अत्यन्तभेदाभावादिति ।
 जवक्ष्यमाणाभिसंधिरेकान्तवादिनं बौद्धमुत्थापयति-अपर आहेति । धर्मा एव हि रुचकादयस्तयोत्पन्नाः परमार्थसन्तो न पुनः सुवर्ण नाम किंचिदेकानेकेष्वनुगतं द्रव्यमिति । यदि पुनर्निवर्तमानेष्वपि धर्मेषु द्रव्यमनुगतं भवेत्ततो न चितिशक्तिवत्परिणमेतापि तु कौट. स्थ्येनैव परिवर्तत । परिणामात्मकं रूपं परिहाय रूपान्तरेण कौटस्थ्येन परिवर्तनं परिवृत्तिः । यथा चितिशक्तिरन्यथान्यथाभावं भजमानेष्वपि गुणेषु स्वरूपादप्रच्युता कूटस्थनित्यैवं सुवर्णाद्यपि स्यान्न चेष्यते । तस्मान्न द्रव्यमतिरिक्तं धर्मेभ्य इति ।
 परिहरति-अयमदोष इति । कस्मात् । एकान्ततानभ्युपगमात् । यदि चिति- शक्तेवि द्रव्यस्यैकान्तिकी चित्यतामभ्युपगच्छेम तत एवमुपालभ्येमहि । नत्वैकान्तिकी नित्यतामातिष्ठामहे किंतु तदेतत्रैलोक्यं नतु द्रव्यमानं व्यक्तरर्थक्रियाकारिणो रूपादपैति ।
 * क. पुस्तके धमिणामिति वर्तते तत्प्रामादिकम् । धर्मिण इति पञ्चम्यन्तं पूर्वान्वाये । + क. झ. पुस्तकयोः । ननु धर्मिणां धर्माणाम् । इति वियो तत्र धामणामित्यधिकमेव । ४ इई पञ्चम्यन्तं पूर्यान्वयीति पूर्ववोध्यम् । ७ क. ज. झ, पुस्तकेषु वक्ष्यमाणोऽभिसंधिरिति पाठो वर्तते स मामादिकः।


१ ग. घ. छ. च. नद्र' । २ ग, घ. ङ. च. कान्तान । ३ ख. ज. च । द्वारा। ४ ज.दोषःक। ५ ख. ज. झ. कान्तान ।