पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
[ ३ विभूतिपादें-
वाचस्पतिकृतटीकासंबलितव्यासभाष्यसमेतानि-


 

तथाऽवस्थापरिणामः[१] । तत्र निरोधक्षणेषु निरोधसंस्कारा
बलवन्तो भवन्ति दुबैला व्युत्थानसंस्कारा इति । एष धर्मा-
णामवस्थापरिणामः । तत्र धर्मिणो धर्मः परिणामो धर्माणां
व्यध्वनां लक्षणैः परिणामो लक्षणानाम यवस्थाभिः परिणाम
इति । एवं धर्मलक्षणावस्थापरिणामैः शून्यं न क्षणमपि गुण-
वृत्तमवतिष्ठते । चलं च गुणवृत्तम् । गुणस्वाभाव्यं तु प्रवृत्तिका-
रणमुक्तं गुणानामिति । एतेन भूतेन्द्रियेषु धर्मधर्मिभेदात्रिविधः
परिणामो वेदितव्यः।

 परमार्थतस्त्वेक एव परिणामः । धर्मिस्वरूपमात्रो हि धर्यो ।

 धर्मपरिणामसूचितमेवावस्थापरिणाममाह-तथेति । धर्माणां वर्तमानावनां बल-- वत्त्वाबलवत्त्वे अवस्था तस्याः प्रतिक्षणं तारतम्यं परिणामः । उपसंहरति-एष इति । परिणामभेदानां संवन्धिभेदानिर्धारयति-तत्रानुभवानुसाराद्धर्मिण इति । तस्किमेत्र परिणामो गुणानां कादाचित्को नेत्याह-एवमिति । कस्मात्पुनरयं परिणामः सदातन इत्यत आह-चलं चेति । चो हेत्यर्थः । वृत्तं प्रचारः । एतदेव कुत इत्यत आह- गुणस्वाभाव्यमिति । उक्तमत्रैव पुरस्तात् । सोऽयं त्रिविधोऽपि चित्तपरिणामो भूते- न्द्रियेषु सूत्रकारेण निर्दिष्ट इत्याह – एतेनेति । एष धर्म[२]परिणामभेदो धर्मधर्मिणोर्मेंदमा- लक्ष्य । तत्र भूतानां पृथिव्यादीनां धर्मिणां गवादिर्घटादिर्वा धर्मपरिणामः । धर्माणां चातीतानागतवर्तमानरूपता लक्षणपरिणामः । वर्तमा[३]नलक्षणापन्नस्य गवादेर्वाल्पकौमार- यौवनवार्धक्यमवस्थापरिणामः । घटादीनामपि नवपुरातनताऽवस्थापरिणामः । एवमिन्द्रि- याणामपि धर्मिणां तत्तन्नीलाद्यालोचनं धर्मपरिणामो धर्मस्य वर्तम,ता[४]दिलक्षणपरिणामो वर्तमान[५]लक्षणस्य रत्नाद्यालोचनस्य स्फुटत्वास्फुटत्वादिरवस्थापरिणामः । सोऽयमेवंविधो भूतेन्द्रियपरिणामो धर्मिणो धर्मलक्षणावस्थानां भेदमाश्रित्य वेदितव्यः।

 अभेदमाश्रित्याऽऽह-परमार्थतस्त्विति । तुशब्दो भेदपक्षाद्विशिनष्टि । पारमा- र्थिकत्वमस्य ज्ञाप्यते न त्वन्यस्य परिणाम[६]त्वं निषिध्यते । कस्मात्-~-धर्मिस्वरूप- मात्रो होति । ननु यदि धर्मिविक्रियैव धर्मः कथमसंकरप्रत्ययो लोके परिणामेष्वि.

  1. =क. ख. च. °मः । नि।
  2. =क. स्व. स. मधाभ' ।
  3. = क. नताल |
  4. =ज.'ताल'।
  5. = ज.'नताल।
  6. =ख. झ, "मस्य नि