पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० १३]
१२५
पातञ्जलयोगसूत्राणि ।


णामः । लक्षणपरिणामश्च । निरोधस्त्रिलक्षणत्रिभिरध्वभिर्युक्तः । स खल्वनागतलक्षणमध्वानं.प्रथमं हित्वा धर्मत्वमनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः। यत्रास्य स्वरूपेणाभिव्यक्तिः। एषोऽस्य द्वितीयोऽध्वा । न चातीवानागताभ्यां लक्षणाभ्यां 'वियुक्तः। तथा व्युत्थानं विलक्षणं निभिरध्वभिर्युक्तं वर्तमानलक्षणं हित्वा धर्मत्वानतिक्रान्तमतीतलक्षणं प्रतिपन्नम् । एषोऽस्य तृतीयोऽध्वा । न चानागलवर्तमानान्यां लक्षणाभ्यां वियुक्तम् । एवं पुनर्व्युत्थानापसंपच्यमानएनागतलक्षणं हित्वा धर्मत्वमनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम् । यत्रास्य स्वरूपाभिव्यक्तौ सत्यां व्यापारः । एषोऽस्य द्वितीयोऽध्वा । न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तमिति । एवं पुनर्निरोध एवं पुनर्व्युत्थान- मिति । रणो लक्षणपरिणामोऽपि सूचित एवेत्याह-लक्षणपरिणाम इति । लक्ष्यतेऽनेनेति लक्षणं कालभेदः । तेन हि लक्षितं वस्तु वस्त्वन्तरेभ्यः कालान्तरयुक्तेभ्यो व्यवच्छिद्यत इति । निरोधस्त्रिलक्षणः । अस्यैव व्याख्यानं निभिरध्वभिर्युक्तः । अध्वशब्दः कालवचनः । स खल्वनागतलक्षणमध्वानं प्रथसं हित्वा, तस्किमध्ववद्धर्मामष्यतिपतति नेत्याह--धर्मत्वमनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः । य एव निरोधोऽनागत आसीत्स एव संप्रति वर्तमानो नतु निरोधोऽनिरोध इत्यर्थः । वर्तमानास्वरूपव्याख्यानम्-यत्रास्य स्वरूपेण स्वोचितार्थलियाकारिणौ रूपेणाभिव्यक्तिः समुदाचारः । एषोऽस्य प्रथममनायतमध्वानमपेक्ष्य द्वितीयोऽध्या । स्यादेतदनागतमध्वानं हित्वा चेद्वर्तमानतामापन्नस्तां च हित्वाऽतीततामापत्स्यते हन्त भोरध्वनामुत्पादविनाशौ स्याताम् । न चेष्येते, न ह्यसत उत्पादो नापि सतो विनाश इत्यत आह-न चातीसानागताभ्यां सामान्यात्मनाऽवस्थिताभ्यां वियुक्त इति ।। __ अनागतस्य निरोधत्व वर्तमानतालक्षणं दर्शयित्वा वर्तमानव्युत्थानस्यातीततां ततीय- मध्वानमाह-~-तथा व्युत्थानमिति । तत्किं निरोध एवानागतो न व्युत्थानं नेत्याह--- एवं पुनर्युत्थानमिति । व्युत्थान जात्यपेक्षया पुनर्भावो न व्यक्त्यपेक्षया । न ह्यतीतं पुनर्भवतीति । स्वरूपाभिव्यक्तिरर्थक्रियाक्षमस्याऽऽविर्भावः । स चैवंलक्षणपरिणाम उक्तस्तज्जातीयेषु पौन:पुन्येन वर्तत इत्यत आह-एवं पुनरिति । १ ग. घ. छ. च. मान ल° । २ ख. ग. प. उ. च. मानं ल' । ३ म. घ. ह. च. मान ल । ४ व. तारूप । ५ क. ख, झ. °णा स्वरू । ६ क. ख. न. चेष्यते ।