{{|१२५left|वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- center|[ ३ विभूतिपादे-right}}
इत्यर्थः । तयोधर्मित्वेनानुगतं चित्तं, तदिदं[१] स्वात्मभूतयोधर्मयोरनुगतं समाधीयते स चित्तस्य समाधिपरि- णामः ॥ ११ ॥
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ १२ ॥
समाहितचित्तस्य पूर्वप्रत्ययः शान्त उत्तरस्तत्सदृश उदितः, समाधिचित्तमुभयोरनुगतं पुनस्तथैवाऽऽसमाधिभ्रेषादिति । स खल्वयं धर्मिणश्चित्तस्यैकाग्रतापरिणामः ॥ १२ ॥
एतेन तेन्द्रियेषु धर्मलक्षणावस्था. परिणामा व्याख्याताः ॥ १३ ॥ |
एतेन पूर्वोक्तेन वित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चोक्तो वेदितव्यः । तत्र व्युत्थामनिरोधयोरभिभवप्रादुर्भावौ धर्मिणि धर्मपरि-
पजनौ सर्वार्थताया अपाय एकाग्रताया उपजनस्तयोरनुगते चित्तं समाधीयते पूर्वापरीभूतमाध्यमानसमाधिविशेषणं भवतीति ॥ ११॥
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ।
पुनः समाधेः [२] अवस्थायाः समाधिनिष्पत्तौ सत्यां शान्तोदितावतीतवर्तमानौ, तुल्यौ च तौ प्रत्ययौ चेति तुल्यात्ययौ । एकाग्रतायां तु द्वयोः सादृश्यम् । समाहितचित्तस्येति. समाधिनिष्पत्तिदर्शिता । तथैवैकाग्रमेव । अवधिमाह-आसमाधिभ्रेषाद्भंशादिति॥१२॥
प्रासङ्गिकं च वक्ष्यमाणौपयिकं च भूतेन्द्रियपरिणाम विभजते-एतेन भूतेन्द्रि- येषु धर्मलक्षणावस्थापरिणामा व्याख्याताः । ब्याचष्टे-एतेनेति । ननु चित्तपरिणतिमानमुक्तं न तु तत्प्रकारा धर्मलक्षपावस्थापरिणामास्तत्कथं तेषामतिदेश इत्यत आह-तत्र व्युत्थाननिरोधयोरिति । धर्मलक्षणावस्थाशब्दाः परं नोच्चारिता नतु धर्मरक्षणावस्थापरिणामा नोक्ता इति संक्षेपार्थः । तथाहि न्युत्थाननिरोधसंस्कारयो- रित्यत्रैव सूत्रे धर्मपरिणाम उक्तः । इमं च धर्मपरिणाम दर्शयता सेनैव धर्माधिक-[३] [४]