न जिताधरभूमिरनन्तरभूमिं विलय प्रान्तभूमिषु संयम लभते ।
तदभावाच कुतस्तस्य प्रज्ञालोकः । ईश्वरप्रसादाजितोत्तरभूमि-
कस्य च नाधरभूमिषु परचिरज्ञानादिषु संयमो युक्तः । कस्मात् ,
तदर्थस्यान्यत एवावगतत्वात् । भूमेरस्या इयमनन्तरा भूमिरित्यत्र
योग एवोपाध्यायः । कथम् । एवं युक्तम्-
" योगेन योगो शालव्यो योगो गोगात्मवर्तते ।
योऽप्रमत्तस्तु रोगेन स योगे रमते चिरम्" इति ॥६॥
त्रयमन्तरङ्गं पूर्वयः ॥ ७ ॥
तदेतद्धारणाध्यानसमाधित्रयमन्तरङ्ग संमज्ञातस्य समाधेः
पूर्वेभ्यो यमादिभ्यः पश्चभ्यः साधनेभ्य इति ॥ ७ ॥
यदा च धारणा तस्मिन्नवस्थानवती ततः ।
किरीटकेयूरमुखैर्भुषण रहितं स्मरेत् ॥
तदैकावयवं देवं सोऽहं चेति पुनर्बुधः ।
कुर्यात्ततो ह्यहमिति प्रणिधानपरो भवेत् ” [वि०पु० ६।७.८६-८८] इति ॥
कस्मात्पुनरधरी भूमि विजित्योत्तरां विजयते विपर्ययः कस्मान्न भवतीत्यत आहे---
न ह्यजिताधरभूमिरिति । न हि शिलाहदाद्गङ्गां प्रति प्रस्थितोऽप्राप्य भेक्वनं गङ्गा
प्राप्नोति । ईश्वरप्रसादाजितोत्तरभूमिकस्य चेति कस्मात्तदर्थस्योत्तरभूमिविजयस्य
प्रत्यासन्नस्यान्यत एवेश्वरप्रणिधानादेवावगतत्वात् । निष्पादितकिये कर्मध्यविशेषाधायिनः
साधनस्य साधनन्यायातिपातादिति । स्यादेतदागमतः सामान्यतोऽयगतानामन्यवान्तरभू-
मिभेदानां कुतः पौर्यापर्यावगतिरित्यत आह-~~भूमेरस्या इति । जितः पूर्वो योग
उत्तरस्य योगस्य ज्ञानप्रवृत्त्यधिगमहेतुः । अवस्थैवावस्थावानिसभिप्रेत्यैतद्रष्टव्यम् ॥ ६ ॥
कस्मात्पुनर्योगाङ्गत्वाविशेषेऽपि संयमस्य तत्र तत्र विनियोगो नेतरेषां पञ्चानामित्यत
आह-नयमन्तरङ्ग पूर्वेभ्यः । तदिदं साधनत्रयं साध्यसमानविषयत्वेनान्तरङ्ग न
त्वेवं यमादयस्तस्माते बहिरङ्गा इत्यर्थः ॥ ७ ॥
१. ख. मणिधानाजि ।२. ख. च, न्यथैवा । ३. उ. एषमुक्त।
- ↑ १. ख. मणिधानाजि ।२. ख. च, न्यथैवा । ३. उ. एषमुक्त।