एतत् पृष्ठम् परिष्कृतम् अस्ति
सू. २-३] पातञ्जलयोगसूत्राणि ।
तत्र प्रत्ययैकतानता ध्यानम् ॥ २ ॥ तस्मिन्देशे ध्येयालम्बनस्य प्रत्ययस्यैकतानता सहशः प्रवाहः प्रत्ययान्तरेणापरामृष्टो ध्यानम् ॥ २॥ तदेवार्थमात्रनिर्भासं स्वरू- पशून्यमिव समाधिः ॥३॥ ध्यानमेव ध्येयाकारनिर्भासं प्रत्ययात्मकेन स्वरूपेण शून्य- मिव यदा भवति ध्येयस्वभावावेशात्तदा समाधिरित्युच्यते ।। ३ ॥
समस्थितोरुजड्घं च स्वस्तिकाङ्घ्रि॓वराम्बुजम् । चिन्तयेद्ब्रह्मभूतं तं पीतनिर्मलवाससम् ॥ किरीटचारुकेयूरकटकादिविभूषितम् । शार्ङ्गचक्रगदाखड्गशस्ङ क्षवलयान्वितम्॥ चिन्तयेत्तन्मयो योगी समाधायाऽऽत्ममानसम् । तावद्याबहृढीभूता तत्रैव नृप धारणा ॥ एतदातिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः । नापयाति यदा चित्तं सिद्धां मन्येत तां तदा ” [वि०पु०६।७।७७-८५] इति ॥ १॥ धारणासाध्यं ध्यानं लक्षयति--तत्र प्रत्ययैकतानता ध्यानम् । एकतानतै. काग्रता । सुगभं भाष्यम् । अत्रापि पुराणम्___ " तद्रूपप्रत्ययैकाग्र्यसंततिश्चान्यनि स्पृहा । तद्भधानं प्रथमैरङ्गैः षड्भिर्निष्पाघते नृप " [वि०पु०६।७।८९] इति ॥ २ ॥ भ्यानसाध्यं समाधि लक्षयति-तदेवार्थमात्रनिर्भासं स्वरूपशुन्यमिव समाधिः । व्याचष्टे-ध्यानमेवेति । ध्येयाकारनिर्भासमिति । ध्येयाकारस्यैव निर्भासो न ध्यानाकारस्येति । अत एवाऽऽह-शून्यमिति । ननु शून्यं चेत्कथं ध्येयं प्रकाशेतेत्यत आह-इवेति । अत्रैव हेतुमाह-ध्येयस्वभावावेशादिति । अत्रापि पुराणम्-" तस्यैव कल्पनाहीनं स्त्ररूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते " [वि०पु०६।७।९० ] इति ॥ ध्येयाद्दयानस्य भेदः कल्पना तद्धीनमित्यर्थः । अष्टाङ्गयोगमुक्त्वा खाण्डिक्याय कैशिध्वज उपसंजहार---
१ ख. च. ते ॥ ३ ॥ तत्रय । २ क. ज, झ. निकरा । ३ ख. ज. झ. याञ्चितम् ।