पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वाचस्पतिकृटिकासंवलितव्यासभाष्यसमेतानि

                                                                                                     पातञ्जलयोगसूत्राणि ।
                                                                                                             --------
                                                                                                   (तत्र तृतीयो विभूतिपादः ।)
                                                                              उक्तानि पञ्च बहिरङ्गानि(णि) साधनानि । धारणा वक्तव्या- .
                                                                                                 देशबन्धश्चित्तस्य धारणा ॥ १ ॥
                                                                              नाभिचक्रे हृदयपुण्डरीके मूर्ध्नि ज्योतिपि नासिकाग्रे जिह्वाग्र
                                                                              इत्येवमादिषु देशेषु बाह्ये वा विषये चित्तस्य वृत्तिमात्रेण बन्ध
                                                                              इति धारणा ॥१॥
                                                                 --------------------------------------------------------------------------------
                                                                         प्रथमद्वितीयशदाम्यां समाधिस्तत्साधनं चोक्तम् । तृतीयपादे तत्प्रवृत्त्यनुगणाः
                                                                    श्रद्धोत्पादहेतवो विभूतयो वक्तव्याः । ताश्च संयमसाध्याः । संयमश्च धारणाध्यान-
                                                                    समाधिसमुदाय इति विभूतिसाधनतया पश्चभ्यश्च योगाङ्गेभ्यो बहिरङ्गेभ्योऽस्याङ्गत्र-
                                                                    यस्यान्तरङ्गतया विशेषज्ञापनार्थमत्र त्रयस्योपन्यासः । तत्रापि च धारणाध्यानसमाधीनां
                                                                    कार्यकारणभावेन नियतपौर्वापर्यत्वात्तदनुरोधेनोपन्यासे क्रम इति प्रथमं धारणा लक्षणी.
                                                                    येत्याह ---उक्तानीति । देशबन्धश्चित्तस्य धारणा । आध्यात्मिकदेशमाह-नाभि-
                                                                    चक्र इति । आदिशब्देन ताल्वादयो ग्राह्याः । बन्धः संबन्धः । बाह्यदेशमाह-बाह्य
                                                                    इति । बाह्ये च न स्वरूपेण चित्तस्य संबन्धः संभवतीत्युक्तं वृत्तिमात्रेण ज्ञानमात्रणेति।
                                                                    अत्रापि पुराणम्---" प्राणायामेन पवनं प्रत्याहारेण चेन्द्रियम् ।
                                                                                       वशीकृत्य ततः कुर्याञ्चित्तस्थानं शुभाश्रये " ॥ [वि०पु०६७/४५],
                                                                          शुभाश्रया बाह्या हिरण्यगर्भवासवप्रजापतिप्रभृतयः ।
                                                                    इदं च तत्रोक्तम्---" मूर्त भगवतो रूपं सर्वोपाश्रयनिःस्पृहम् ।
                                                                                             एषा वै धारणा शेया यश्चित्तं तत्र धार्यते ।।
                                                                                             तच्च मूर्त हरे रूपं यद्विचिन्त्यं नराधिप ।
                                                                                             तच्छ्यतामनाधारा धारणा नोपपद्यते ।।
                                                                                             प्रसन्नवदनं चारुपद्मपत्रनिभेक्षणम् ।
                                                                                             सुकपोलं सुविस्तीर्णललाटफलकोज्ज्वलम् ।।
                                                                                             समकर्णान्तविन्यस्तचारुकुण्डलभूषणम् ।
                                                                                             कम्बुग्रीवं सुविस्तीर्णश्रीवत्साङ्कितवक्षसम् ॥
                                                                                             वलीविभङ्गिना मग्ननाभिना चोदरेण च ।
                                                                                             प्रलम्बाष्टभुजं विष्णुमथ याऽपि चतुर्भुजम् ॥