पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११६ वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ २ साधनपादे--

मानमनु निविशन्ते तथेन्द्रियाणि चित्तनिरोधे निरुद्धानीत्येष
प्रत्याहारः ॥ ५४॥
ततः परमा वश्यतेन्द्रियाणाम् ॥ ५५ ॥}}

( इति श्रीपतञ्जलिविरचितयोगसूत्रेषु दितीयः साधनपादः ॥ २॥)

शब्दादिष्वव्यसनमिन्द्रियजय इति केचित् । सक्तिर्व्यसनं व्यस्यत्येनं श्रेयस इति । अविरुद्धा प्रतिपत्तिर्न्याय्या । शब्दादिसंप्रयोगः स्वेच्छयेत्यन्ये । रागद्वेषाभावे सुखदुःखशून्यं शब्दादि- ज्ञानमिन्द्रियजय इति केचित् । चित्तैकाग्र्यादप्रतिपत्तिरेवेति जैगीषव्यः । ततश्च परमा त्वियं वश्यता यच्चित्तनिरोधे निरु-


योजयति--तथेति । अत्रापि विष्णुपुराणवाक्यम्----

"शब्दादिष्वनुपक्तानि निगृह्याक्षाणि योगवित् ।}}
कुर्याच्चिातानुकारीणि प्रत्याहारपरायणः " ॥ (वि० पु० ६७४३)

तस्य प्रयोजनं तत्रैव दर्शितम्---

"वश्यता परमा तेन जायते निश्चलात्मनाम् ।
इन्द्रियाणामवश्यस्तैर्न योगी योगसाधक:"

(वि. पु० ६१७४४ ) इति ॥ ५४ ॥

अस्यानुवादक सत्रम्-ततः परमा वश्यतेन्द्रियाणाम् । ननु सन्ति किमन्या अपरमा इन्द्रियाणां वश्यता या अपेक्ष्य परमेयमुच्यते, अद्धा ता दर्शयति-~-शब्दादिष्विति। एतदेव विवणोति सक्ती रोगो. व्यसनम् । कया व्युपत्त्या, व्यस्यति क्षिपति निरस्यस्थेनं श्रेयस इति । तदभावोऽव्यसनं वश्यता । अपरामपि वश्यतामाह- अविरुद्धा श्रुत्याद्यविरुद्धशब्दादिसेवनं तद्विरुद्धेष्वप्रवृत्तिः, सैव न्याय्या न्यायादनपेता यतः । अपरामपि वश्यतामाह-~~-शब्दादिसंप्रयोग इति । शब्दादिष्विन्द्रियाणा संप्रयोगः स्वेच्छया भोग्येषु खल्वयं स्वतन्त्रो न भोग्यतन्त्र इत्यर्थः । अपरामपि वश्यतामाह----रागद्वेषाभावे सुखदुःखशून्यं माध्यस्थ्येन शब्दादिज्ञानमित्येके । सूत्रकाराभिमतां वश्यतां परमर्षिसंमतामाह-चित्तस्यैकाश्यात्सहेन्द्रियैरप्रवृत्तिरेव शब्दादिष्विति जैगीषव्यः । अस्याः परमतामाह-परमा त्विति । तुशब्दो वश्य- तान्तरेभ्यो विशिनष्टि । वश्यतान्तराणि हि विषयाशीविषसंप्रयोगशालितया क्लेशविषसंपर्कशङ्का नापक्रामन्ति । न हि विषविद्यावित्प्रकृष्टोऽपि वशीकृतभुजंगमो भुजंगमभङ्के निधाय स्वपिति विश्रब्धः । इयं तु वश्यता विदूरीकृतनिखिलविषयस्यतिषङ्गा