पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११४]
 
वाचस्पतिकृतटीकासंचलितव्यासभाष्यसमेतानि-।
२ साधनपादे-
 


"विषयानालोचितो गत्यभावः सकृदारब्ध एव देशकालसं- ख्याभिः परिदृष्टो दीर्घसूक्ष्मः| चतुर्थस्तु श्वासप्रश्वासयोर्विष- यावधारणात्क्रमेण भूमिजयादुभयाक्षेपपूर्वको गत्यभावश्चतुर्थः प्राणायाम इत्ययं विशेष इति ॥ ५१॥|}}

ततः क्षीयते प्रकाशावरणम् ॥ ५२ ॥|}}
प्राणायामानभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञाना-

वरणीयं कर्म । यत्तदाचक्षते--महामोहमयेनेन्द्रजालेन प्रकाश- शीलं सत्त्वमावृत्य तदेवाकार्ये नियुङ्वत इति । तदस्य प्रकाशावरणं कर्म संसारनिबन्धनं प्राणायामाभ्यासाद्दुर्बलं भवति प्रतिक्षणं च क्षीयते । तथाचोक्तम्---"तपो न परं प्राणायामात्ततो विशुद्धिर्मलानां दीप्तिश्च ज्ञानस्य" इति ॥ ५२ ॥}} प्रयत्ननिर्वर्तितस्तृतीयः । चतुर्थस्त्वालोचनपूर्वो बहुप्रयत्ननिर्वर्तनीय इति विशेषः । तयोः पूरकरेचकयोर्विषयोऽनालोचितोऽयं तु देशकालसंख्याभिरालोचित इत्यर्थः ।। ५१ ॥}} प्राणायामस्यावान्तर प्रयोजनमाह--ततः क्षीयते प्रकाशावरणम् । आव्रीयतेऽनेन बुद्धिसत्त्वप्रकाश इत्यावरणं क्लेशः पाप्मा च । व्याचष्टे--प्राणायामानिति । ज्ञायतेऽनेनेति ज्ञानं बुद्धिसत्त्वप्रकाशो विवेकस्य ज्ञान विवेकज्ञानम् । विवेकज्ञानमावृणोतीति विवेकज्ञानावरणीयम् । भव्यगेयप्रवचनीयादीनां (पा०स०३।४।६८) कतरि निपातनस्य प्रदर्शनार्थत्वात्कोपनीयरञ्जनीयवदत्रापि कर्तरि कृत्यप्रत्ययः । कर्मशब्देन तज्जन्यमपुण्यं तत्कारणं क्लेशं [ च ' लक्षयति । अत्रैवाऽऽगमिनामनुमतिमाह-यत्तदाचक्षत इति । महामोहो रागः, तदविनिर्भागवर्तिन्यविद्याऽपि तद्ग्रहणेन गृह्यते । अकार्यमधर्मः । ननु प्राणायाम एव चेत्पाप्मानं क्षिणोति कृतं तर्हि तपसेत्यत आह-दुर्बलं भवतीति । न तु सर्वथा क्षीयतेऽतस्तत्प्रक्षयाय तपोऽपेक्ष्यत इति । अत्राप्यागमिनामनुमतिमाह-तथा चोक्तमिति| मनुरप्याह- प्राणायामैर्दहेद्दोषान्” ( मनुस्मृ० ६।७२ ) इति ।

प्राणायामस्य योगाङ्गता विष्णुपुराणोक्ता-}}

१ ज. "म् । व्या' । २ ज. कज्ञा । ३ ज. शानमावियतेऽनेन बुद्धिसत्त्वप्रकाश इत्यावरणं क्लेशः पाप्मा स हि वे ज्ञानता।४ क. ख. न स हि विवेकज्ञानमा । ५ ज. °ण्यं च के।