पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
म० ५१]
११३
पातञ्जलयोगसूत्राणि ।


दृष्टा इयानस्य विषयो देश इति । कालेन परिदृष्टाः क्षणानामियत्तावधारणेनावच्छिन्ना इत्यर्थः । संख्याभिः परिदृष्टा एतावद्भिः श्वासप्रश्वासैः प्रथम उद्घातस्तद्वन्निगृहीतस्यैतावद्भि-

र्द्वितीय उद्घात एवं तृतीयः । एवं मृदुरेवं मध्य एवं तीव्र इति

संख्यापरिदृष्टः । स खल्वयमेवमभ्यस्तो दीर्घसूक्ष्मः ॥ ५०.॥

बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ ५१॥

देशकालसंख्याभिर्बाह्यविषयपरिदृष्ट आक्षिप्तः । तथाऽऽभ्य-

न्तरविषयपरिदृष्ट आक्षिप्तः । उभयथा दीर्घसूक्ष्मः । तत्पूर्वको

भूमिजयात्क्रमेणोभयोर्गत्यभावश्चतुर्थः प्राणायामः । तृतीयस्तु


इयानस्य देशो विषयः प्रादेशवितस्तिहस्तादिपरिमितो निवातप्रदेश ईषीकातूलादिक्रिया-

नुमितो बाह्य एवमान्तरोऽप्यापादतलमामस्तकं पिपीलिकास्पर्शसदृशेनानुमितः स्पर्शेन ।

निमेषक्रियावच्छिन्नस्य कालस्य चतुर्थो भागः क्षणस्तेषामियत्तावधारणेनावच्छिन्नः । स्वजा-

नुमण्डलं पाणिना त्रिः परामृश्य च्छोटिकावच्छिन्नः कालो मात्रा ताभिः षट्त्रिंशता

मात्राभिः परिमितः प्रथम उद्घातो मृदुः । स एव द्विगुणीकृतो द्वितीयो मध्यमः । स एव

त्रिगुणीकृतस्तृतीयस्तीव्रः । तमिमं संख्यापरिदृष्टं प्राणायाममाह --संख्याभिरिति

स्वस्थस्य हि पुंसः श्वासप्रश्वासक्रियावच्छिन्नेन कालेन यथोक्तम्छोटिकाकालः समानः ।

प्रथमोद्धातकर्मतां नीत उद्धातो विजितो वशीकृतो निगृहीतः । क्षणानामियत्ता कालो

विवक्षितः । श्वासप्रश्वासेयत्ता संख्येति कथंचिद्भेदः । स खल्वयं प्रत्यहमभ्यस्तो दिवस-

पक्षमासादिक्रमेण देशकालपचयव्यापितया दीर्घः । परमनैपु ण्यसमधिगमनीयतया च सूक्ष्मो

न तु मन्दतया ॥ ५० ॥

एवं त्रयो विशेषाः लक्षिताः । चतुर्थ लक्षयति बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः

व्याचष्टे -देशकालसंख्याभिरिति । आक्षिप्तोऽभ्यासरशीकृताद्रूपादवरोपितः सोऽपि

दीर्घसूक्ष्म एव तत्पूर्वको बाह्याभ्यन्तरविषयप्राणायामो देशकालसंख्यादर्शनपूर्वकः । न

चासौ चतुर्थस्तृतीय इव सकृत्प्रयत्नादाय जायते किं त्वन्यस्यमानस्तां तानवस्थामापन्नस्तत्तदवस्थाविज पानुक्रमेण भवतीत्याह- भूमि जयादिति । ननूभयोर्गत्यभावः सम्भ-

वृत्तावप्यस्तीति कोऽस्मादस्य विशेष इत्यत आह-तृतीय इति । अनालोचनपूर्वः सकृ. [१]

  1. १ ख. ज. झ मन्दः । २ ज. श्वासपच रोपन्ना तु सं° ।