पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२ .
[ २ साधनपाद-
वाचस्पतिकृतटीकासंचलितव्यासभाष्यसमेतानि-


तस्मिन्सति श्वासप्रश्वासयोर्गति-
विच्छेदः प्राणायामः ॥ ४९ ॥

सत्यासनजये बाह्यस्य वायोराचमनं श्वासः, कौष्ठयस्य वायोर्निःसारणं प्रश्वासः, तयोर्गतिविच्छेद उभयाभावः प्राणा- यामः ॥ ४९॥

स तु--

बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसं-
ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥५०॥

यत्र प्रश्वासपूर्वको गत्यभावः स बाह्यः । यत्र श्वासपूर्वको गत्यभावः स आभ्यन्तरः। तृतीयः स्तम्भवृत्तियेत्रोभयाभावः सकृत्पयत्नाद्भवति । यथा तप्ते न्यस्तमुपले जलं सर्वतः संकोचमापद्यते तथा द्वयोर्युगपंगत्यभाव इति । त्रयोऽप्येते देशेन परि-


 " एवं भद्रासनादीनां समास्थाय गुणैर्युतम् ” इति [ वि०पु० ६।७।३९] ॥ ४८ ॥ आसनानन्तरं तत्पूर्वकतां प्राणायामस्य दर्शयंस्तल्लक्षणमाह--तस्मिन्सति श्वास प्रश्वासयोर्गतिविच्छेदः प्राणायामः । रेचकपूरककुम्भकेष्वस्ति श्वासप्रश्वासयोर्गति- विच्छेद इति प्राणायामसामान्यलक्षणमेतदिति । तथाहि---यत्र बाह्यो वायुराचम्यान्तर्धार्यते पूरके तत्रास्ति श्वासप्रश्वासयोर्गतिविच्छेदः । यत्रापि कौष्ठयो वायुर्विरेच्य बहिर्धार्यते रेचके तत्रास्ति श्वासप्रश्वासयोगतिविच्छेदः । एवं कुम्भकेऽपीति । तदेतद्भाष्येणोच्यते-- सत्यासनेति ॥ १९॥ प्राणायामविशेषत्रयलक्षणपरं सूत्रमवतारयति-स त्विति । बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः । वृत्तिशब्दः प्रत्येकं संबध्यते । रेचकमाह-~-यत्र प्रश्वासेति । पूरकमाह-यत्र श्वासेति । कुम्भकमाह---तृतीय इति । तदेव स्फुटयति---यत्रोभयोः श्वासप्रश्वासयोः सकृदेव विधारकात्प्रयत्नादभावो भवति न पुनः पूर्ववदापूरणप्रयत्नौघविधारकप्रयत्नो नापि रेचकप्रयत्नौघवि- धारकार्यत्नोऽपेक्ष्यते । किंतु यथा तप्त उपले निहितं जलं परिशुध्यत्सर्वतः संकोचमापद्यत एवमयमपि मारुतो वहनशीलो बलवद्विधारकप्रयत्ननिरुद्भक्रियः शरीर

एव सूक्ष्मीभूतोऽवतिष्ठते नतु पूरयति येन पूरकः । न तु रेचयति येन रेचक इति ।


[१]

  1. १ ग. प्र. पद्भवत्य' । २ ख. ज, रणध । ३ ख. ज. झं. रणः । ४ ख. ज. यत्नः ।।