तद्यथा पद्मासनं भद्रासनं स्वस्तिकं दण्डासनं सोपाश्रयं पर्यङ्कं |
सूत्रार्थः । आस्येत् आस्ते वाऽनेनेत्यासनम् । तस्य प्रभेदानाह -तद्यथेति । पद्मासनं प्रसिद्धम् । स्थितस्यैकतरः पादो भून्यस्त एकतरश्चाऽऽकुश्चितजानोरुपरि न्यस्त इत्येतद्वी- रासनम् । पादतले वृषणसमीपे संपुटीकृत्य तस्योपरि पाणिकच्छपिकां कुर्यात्तद्भद्रासनम् । सव्यमाकुश्चितं चरणं दक्षिणजधोर्वन्तरे दक्षिणं चाऽऽकुञ्चितं वामज्ङघोर्वन्तरे निक्षि- पेदेतत्स्वस्तिकम् । उपविश्य लिष्टाङ्गुलिको श्लिष्टगुल्फोक्रौञ्चनिषदनादीनि क्रौञ्चादीनां निषण्णानां संस्थानदर्शनात्प्रत्येतव्यानि । पाष्णर्यग्रपादाभ्यां [१]द्वयोराकुञ्चितयोरन्योन्यसंपीडनं समसंस्थानं, येन संस्थानेनावस्थितस्य स्वयं [२]सुखं[३] च सिध्यति तदासनं स्थिरसुखम् । तदेतद्भगवतः [४]सूत्रकारस्य संमतं, तस्य विवरणं यथा- सुखं चेति ।। ४६ ॥ ___ आसनस्वरूपमुक्त्वा तत्साधनमाह-प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् । सांसि- द्धिको हि प्रयत्नः शरीरधारको न योगाङ्गस्योपदेष्टव्यासनस्य कारणं तस्य तःकारणत्व उपदेशवैयर्ध्यात्स्वरसत एव तसिद्धेः ।तस्मादुपदेष्टव्यस्याऽऽसनस्यायमसाधको विरोधी च स्वाभाविकः प्रयत्नस्तस्य च यादृच्छिकासनहेतुतयाऽऽसननियमोपहन्तत्वात् । तस्मादुप- दिष्टनियमासनमभ्यस्यता स्वाभाविकप्रयत्नशैथिल्याय[५] प्रयत्न आस्थेयो नान्यथोपदिष्टमासनं सिध्यतीति स्वाभाविकप्रयत्नशैथिल्यमासनसिद्धिहेतुः । अनन्ते वा नागनायके स्थिरतरफ- णासहस्रविधृतविश्वंभरामण्डले समापन्नं चित्तमासनं निर्वर्तयतीति ॥ ४७ ॥ ___ आसनविजयसूचकमाह-ततो इंदानभिघातः । निगदव्याख्यातं भाष्यम् । आस- नमप्युक्तं विष्णुपुराणे--