पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
[ २ साधनपादे-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-


कायेन्द्रियसिद्धिरशुद्धि-
क्षयात्तपसः ॥ ४३ ॥
निर्वर्त्यमानमेव तपो हिनस्त्यशुद्धयावरणमलं तदावरणम-
लापगमात्कायसिद्रिाणिमाद्या । तथेन्द्रियसिद्धिदूराच्छ्वर्णदर्श-[१]नायेति ॥ ४३

स्वाध्यायादिष्टदेवतासंप्रयोगः ॥ ४४ ॥
देवा ऋषयः सिद्धाश्च स्वाध्यायशीलस्य दर्शनं गच्छन्ति,
कार्ये चास्य वर्तन्त इति ॥ ४४ ॥

समाधिसिद्धिरीश्वरप्रणिधानात् ॥ ४५ ॥

ईश्वरार्पितसर्वभावस्य समाधिसिद्धिर्यया सर्वमीप्सितमवि-
तथं जानाति देशान्तरे देहान्तरे कालान्तरे च । ततोऽस्य प्रज्ञा
यथाभूतं प्रजानातीति ॥ ४५ ॥

उक्ताः सह सिद्धिभिर्ययनियमाः । आसनादीनि वक्ष्यामः ।
      तत्र

स्थिरसुखमासनम् ॥४६॥


तपःसिद्धिसूचकमाह-कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः । अशुद्धिलक्षणमा-
वरणं तामसमधर्मादि । अणिमाद्या महिमा लघिमा प्राप्तिश्च । सुगमम् ॥ ४३ ।।

स्वाध्यायसिद्भिसूचकमाह-स्वाध्यायादिष्टदेवतासंप्रयोगः । सुगमम् ।। ४४ ॥

समाधिसिद्धिरीश्वरप्रणिधानात । न च वाच्यमीश्वरप्रणिधानादेव चेत्संप्रज्ञा-
तस्य समाधेरङ्गिनः सिद्धिः कृतं सप्तभिग्डैरिति । ईश्वरप्रणिधानसिद्धौ दृष्टादृष्टावान्त-
रव्यापारेण तेषामुपयोगात् । संप्रज्ञातसिद्धौ च संयोगपृथक्वेन दध्न इव क्रत्वर्थता पुरु-
पार्थता च । न चैत्रमनन्तरङ्गता धारणाध्यानसमाधीनां संग्रज्ञातसिद्धौ । संप्रज्ञातसमान-
गोचरतयाऽङ्गान्तरेभ्योऽतद्गोचरेभ्योऽस्यान्तरङ्गत्वप्रतीतेः । ईश्वरप्रणिधानमपि हीश्वरगोचरं न
संप्रज्ञेयगोचरमिति बहिरङ्गमिति सर्वमवदातम्। प्रजानातीति प्रज्ञापदव्युत्पत्तिर्दर्शिता ॥४५॥

उत्तरसूत्रमवतारयति--उक्ताः सह सिद्धिभिर्यमनियमाः । आसनादीनि
वक्ष्यामः । तत्र-स्थिरसुखमासनम् । स्थिरं निश्चलं यत्सुखं सुखावहं तदासनमिति

  1. =१ क.स्व.च छ
    नमनना