पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू० ४०-४२] पातञ्जलयोगसूत्राणि ।

         नियमेषु वक्ष्यामः-‌---
         शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ ४० ॥
        स्वाङ्गे जुगुप्सायां शौचमारभमाणः कायावद्यदर्शी कायान-
      भिष्वङ्गी यतिर्भवति । किं च परैरसंसर्गः कायस्वभावावलोकी
       स्वमपि कायं जिहासुर्मुज्जलादिभिराक्षालय:" कायशुद्धिमप-
       श्यन्कथं परकायैरत्यन्तमेवाप्रयतैः संसृज्येत ॥ ४० ॥
          किं च--
              सत्त्वशुद्धिसौमनस्यैकाव्येन्द्रियजया-
              त्मदर्शनयोग्यत्वानि च ॥ ४० ॥
           भवन्तीति वाक्यशेषः । शुचेः सत्त्वशुद्धिस्ततः सौमनस्य
        तत ऐकाम्यं तत इन्द्रियजयस्ततश्चाऽऽत्मदर्शनयोग्यत्वं बुद्धिस.
        त्त्वस्य भवतीत्येतच्छौचस्थैर्यादधिगम्यत इति ॥ ४१ ॥
      
            संतोषादनुत्तमः सुखलामः ॥ ४२ ॥
          तथा चोक्तम्---
           " यच्च कामसुखं लोके यञ्च दिव्यं महत्सुखम् ।
            तृष्णाक्षयसुखस्यैते नार्हतः षोडशी कलाम् ॥ इति ॥४२॥

    शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः । अनेन बाह्यशौचसिद्धिसूचकं कथितम् ।।४०॥
    आन्तरशौचसिद्रिसूचकमाह---किंचेति  ।  सत्त्वशुद्धिसौमनस्यैकाग्येन्द्रियज-
  यात्मदर्शनयोग्यत्वानि च । चित्तमलानामाक्षालने चित्तसत्त्वममलं प्रादुर्भवति वैम.
  ल्यात्सौमनस्यं स्वच्छता स्वच्छं तदेकानं ततो मनस्तन्त्राणामिन्द्रियाणां तज्जयाज्जयस्तत
  आत्मदर्शनयोग्यत्वं बुद्धिसत्त्वस्य भवतीति ।। ४१ ॥
     संतोषादनुत्तमः सुखलाभः । न विद्यतेऽस्मादुत्तम इत्यनुत्तमः । यथा चोक्तं
   ययातिना पूरौ यौवनमर्पयता-----
           " या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यताम् ।
          ता तृष्णां संत्यजन्प्राज्ञः सुखेनैवाभिपूर्यते" [भार ०आ०८५।१४] इति ॥
     तदेतदर्शयति - यच्च कामसुखं लोक इत्यादिना ॥ ४२ ॥
     १ क. ख. ज. शौचं सि । २ क. ख. ज. "शौचं सि । ३ ज. पूरवे ।