पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८ .
[ २ साधनपादे-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-

 

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ ३७ ॥
सर्वदिक्स्थान्यस्योपतिष्ठन्ते रत्नानि ॥ ३७॥
 
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ ३८ ॥
यस्य लाभादप्रतिघान्गुणानुत्कर्षयति । सिद्धश्च विनेयेषु'
ज्ञानमाधातुं समर्थो भवति ॥ ३८॥
 
अपरिग्रहस्थैर्थे जन्मकथंतासंबोधः ॥ ३९ ॥
 
 अस्य भवति । कोहमासं कथमहमासं किंस्विदिदं[१] कथं
स्विदिदं के वा भविष्यामः कथं वा भविष्याम इत्येवमस्य पूर्वा-
म्तपरान्तमध्येष्वात्मभावजिज्ञासा[२] स्वरूपेणोपावर्तते । एता
यमस्थैर्ये सिद्धयः ॥ ३९ ॥

  अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् । सुबोधम् ॥ ३७॥   ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः वीर्य सामर्थ्य यस्य लाभादप्रतिघानप्रतिघातान्गु- णानणिमादीनुत्कर्षयत्युपचिनोति[३] । सिद्धश्व [४] तारा ( तर्का ) दिभिरष्टाभिः सिद्धिभिरूहाद्य- परनामभिरुपेतो विनेयेषु शिष्येषु ज्ञानं योगतदङ्गविषयमाधातुं[५] समर्थो भवतीति ॥ ३८ ॥   अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः। निकायविशिष्टैर्देहेन्द्रियादिभिरभिसंम्बन्धो जन्म तस्य कथंता किंप्रकारता तस्याः संवोधः साक्षात्कारः सप्रकारातीन्द्रियशान्तो- दिताव्यपदेश्यजन्मपरिज्ञानमिति यावत् । अतीतं जिज्ञासते कोऽहमासमिति । तस्यैव प्रकारभेदमुत्पादे स्थितौ च जिज्ञासते--कथमहमासमिति । वर्तमानस्य जन्मनः स्वरूपं जिज्ञासते---किंस्विदिति । शरीरं भौतिकं किं भूतानां समूहमात्रमाहोस्वित्ते. भ्योऽन्यदिति । अत्रापि कथंस्विदित्यनुपञ्जनीयम् । क्वचित्तु पठ्यत एव । अनागतं जिज्ञासते--के वा भविष्याम इति। अत्रापि कथंस्विदित्यनुषङ्गः । एवमस्येति । पूर्वान्तोऽतीतः कालः[६] परान्तो भविष्यन्मध्यो वर्तमानस्तेष्वात्मनो भावः शरीरादिसंब- ग्धस्तस्मिञ्जिज्ञासा ततश्च ज्ञानं, यो हि यदिच्छति स तत्करोतीति न्यायात् ॥ ३९ ॥

  1. १ ख. 'दं के।
  2. २ क. ख. तिाप' । ग. च. छ.'र्वाप' ।
  3. ३ ज. तिहला ।
  4. ४ ज. व भावादि ।
  5. ५ ज; 'गधि।
  6. ६ कालो ।