पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० ३५-३६]
१०७
पातञ्जलयोगसूत्राणिः ।


त्पादान्नरकतिर्यक्प्रेतादिषु दुःखमनुभवति, जीवितव्यपरोपणात्प्रतिक्षणं च जीवितात्यये वर्तमानो मरणमिच्छन्नपि दुःखविपाकस्य नियतविपाकवेदनीयत्वात्कथंचिदेवोच्छ्रसिति । यदि च कथंचित्पुण्यावापगता हिंसा भवेत्तत्र सुखप्राप्तौ भवेदल्पायुरिति । 'एवमनृतादिष्वपि योज्यं यथासंभवम् । एवं वितर्काणां चामुमवानुगतं विषाकमनिष्टं भावयन्न वितर्केषु मनः प्रणिदधीत।॥३४॥ प्रतिपक्षभावनाद्धेतोर्हेया वितर्का यदाऽस्य स्युरप्रसवधर्माण- स्तदा तत्कृतमैश्वर्यं योगिनः सिद्धिसूचकं भवति । तद्यथा-

अहिंसाप्रतिष्ठायां तसं-

निधौ वैरत्यागः ॥ ३५॥ सर्वप्राणिनां भवति ॥ ३५ ॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ ३६ ॥ धार्मिको भूया इति भवति धार्मिकः , स्वर्ग प्राप्नुहोति स्वर्गं प्राप्नोति । अमोघाऽस्य वाग्भवति ॥ ३६॥ रहेतुं प्रथममाक्षिपति यूपनियोजनेन । तेन हि यशोरप्रागल्भ्यं भवति । शेषमतिस्फुटम् ॥ ३४ ॥ उक्ता यमनियमास्तदपवादकानां च वितर्काणां प्रतिपक्षभावनातो हानिरुक्ता, संप्रत्पप्रत्यूहं यमनियमाभ्यासात्तत्सिद्धिपरिज्ञानसूचकानि चिह्नान्युपन्यस्यति यत्परिज्ञानाद्योगी तत्र तत्र कृतकृत्यः कर्तव्येषु प्रवर्तत इत्याह (ति)-यदेति ( प्रतिपक्षेति) । अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः । शाश्वतिकविरोधा अप्यश्वमहिषमूपकमार्जाराहिनकुलादयोऽपि भगवतः प्रतिष्टिताहिंसस्य संनिधानात्तचित्तानुकारिणो वैरं परित्यजन्तीति ॥३५॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् । क्रियासाध्यौ धर्माधर्मौ क्रिया तत्फलं च स्वर्गनरकादि ते एवाऽऽश्रयतीत्याश्रयस्तस्य भावस्तत्त्वं तदस्य भगवतो वाचो भवतीति । क्रियाश्रयत्वमाह~- धार्मिक इति । फलाश्रयत्वमाह---स्वर्गमिति । अमोघाऽप्रति- हता ॥ ३६॥ १ ख. ग. इ. च. छ. 'तवे! २ क. ल. च. छ. नातो !