पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६.
[ २ साधनपादे-
वाचस्पतिकृतटीकासंवलिवव्यासभाष्यसमेतानि-


यथा वा वान्तावलेही तथा त्यक्तस्य पुनराददान इति । एव- मादि सूत्रान्तरेष्यपि योज्यम् ॥ ३३ ॥

 वितर्का हिंसादयः कृतकारितानुमो-
दिता लोअक्रोधमोहपूर्वका मृदुम-
ध्याधिमात्रा दुःखाज्ञानानन्तफला
इति प्रतिपक्षमावनम् ॥ ३४ ॥

[१]

  तत्र हिंसा तावत्-कृता कारिताऽनुमोदितेति त्रिधा । एकैका पनस्त्रिधा लोभेन मांसचार्थेन क्रोधेनापकृतमनेनेति मोहन धर्मो मे भविष्यतीति । लोभक्रोधमोहाः पुनत्रिविधा मदुमध्या. धिमात्रा इति । एवं सप्तविंशतिर्भदा भवन्ति हिंसायाः। मृदु- मध्याधिमात्राः पुननिधा--मदुमदुमेध्यमदुस्तीवमृदुरिति । तथा मृदुमध्यो मध्यमध्यस्तीवमध्य इति । तथा मृदुतीब्रो मध्यती. घोऽधिमात्रतीव्र इति । एवमेकाशीतिभेदा हिंसा भवति । सा पुनर्नियमविकल्पसमुच्चयभेदादसंख्येया, प्राणभृद्भेदस्यापरिसं- ख्येयत्वादिति । एवमनृतादिष्वपि योज्यम् ।।

  ते खल्वमी वितर्का दुःखाज्ञानानन्तफला इति प्रतिपक्षमाव- नम् । दुःखमज्ञानं चानन्तं फलं येषामिति प्रतिपक्षमावनम् । तथा च हिंसकस्तावत्प्रथम वध्यस्य वीयमाक्षियति । ततश्च शस्त्रा- दिनिपातेन दुःखयति । ततो जीवितादपि मा 'यति । ततो वीक्षिपादस्य चेतनाचेतनमुपकरणं क्षीणवीर्य भका । दुःखो.

भाष्ये नास्ति तिरोहितमित्र किंचन ॥ ३३ ॥ [२]

  तत्र वितर्काणां स्वरूपप्रकारकारणवर्मफलभेदान्प्रतिपक्षभावना विषयान्प्रतिपक्षमा. वनास्वरूपानिधित्सया सूत्रेणाऽऽह-वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्ष- भावनम् । व्याचष्टे--तत्र हिंसेति ।

  प्राणभद्रेदस्यापरिसंख्येयत्वान्नियमविकल्पसमुच्चयाः संभविनो हिंसादपु.५ । ता- धर्मतस्तमःसमुद्रेके सति चतुर्विधविपर्ययलक्षणस्याज्ञानस्याप्युदय इत्यज्ञानपीठचमप्येते. षामिति । दुःखाज्ञानानन्तफलस्वमेव हि प्रतिपक्षभावनं तद्वशादेभ्यो नि वत्तेरिति । तदेव प्रतिपक्षभावनं स्कोरयति-वध्यस्य पश्चादेर्वीय प्रयत्नं कायव्यापा-१ ज. वादनियतत्वाभि' । २ क. ख. झ. 'वृत्तिरि

  1. १ ज. वादनियतत्वाभि' ।
  2. २ क. ख. झ. 'वृत्तिरि ।