पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० ३३]
१०५
पातञ्जलयोगसूत्राणि ।


शीतोष्णे स्थानासने काष्ठमौनाकारमौने च । व्रतानि चैषां यथायोगं कृच्छ्चान्द्रायणसांतपनादीनि । स्वाध्यायो मोक्षशास्त्राणामध्ययनं प्रणव जपो वा । ईश्वरप्रणिधानं तस्मिन्परमगुरौ सर्वकर्मार्पणम् ।

शय्यासनस्थोऽथ पथि व्रजन्वा
स्वस्थः परिक्षीणवितर्कजालः।
संसारबीजक्षयमीक्षमाणः
स्यान्नित्ययुक्तोऽमृतभोगभागी॥
यत्रेदमुक्तं ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्चेति ॥ ३२ ॥


एतेषां यमनियमानाम्- वितर्कबाधने प्रतिपक्षभावनम् ॥ ३३ ॥ यदाऽस्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन्हनिष्याम्य- हमपकारिणमन्तमपि वक्ष्यामि द्रव्यमप्यस्य स्वी करिष्यामि दारेषु चास्य व्यवायी भविष्यामि परिग्रहेषु चास्य स्वामी भविष्यामीति । एवमुन्मार्गप्रवणवितर्कज्वरेणातिदीप्तेन बाध्यमानस्तत्प्रतिपक्षान्भावयेत् । घोरेषु संसाराङ्गारेषु पच्यमानेन मया शरणमुंपागतः सर्वभूताभयप्रदानेन योगधर्मः । स खल्वहं त्यक्त्वा वितर्कान्पुनस्तानाददानस्तुल्यः श्ववृत्तेनेति भावयेत् । काष्ठमौनमिङ्गितेनापि स्वाभिः पाप्रकाशनम् । अवचनमात्रमाकारमौनम् । परिक्षीणवितर्कजाल इति वितर्को 'माणः संशयविपर्ययौ वेति । एतावता शुद्धोऽभिसंधिरुक्तः । एते च यमनियमा विराण उक्ताः- " ब्रह्मचर्यमहिसां च सत्यास्तेयापरिग्रहान् । सेवेत योगी निष्कामो योग्यता स्वमनो नयन् ।। स्वाध्यायशौचसंतोषतपांसि नियतात्मवान् । "कुर्वीत ब्रह्मणि तथा परस्मिन्प्रवणं मनः ॥ एते यमाः सनियमाः पञ्च पञ्च प्रकीर्तिताः । विशिष्टफलदाः काम्या निष्कामाना(गा) विमुुक्तिदाः " [वि० पु० ६ । ७ | ३६-३८ ] इति ॥ ३२ ॥ श्रेयासि बहुविनानि ' इत्येषामपवादसंभवे तत्प्रतीकारोपदेशपरं सूत्रमवतारयति- एतेषां यम नियमानामिति । सूत्र-वितर्कबाधने प्रतिपक्षभावनम् । वितर्काणां १ चैव । २ . ग. घ. ङ. छ. 'त्यमुक्तो । ३ क. य. 'मुपग । ४ घ. के. गताः स प. अ. धर्माः। स । ६ ज. “म् । भा।