पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४.
[ २ साधनपादे-
वाचस्पतिकृतटोकासंवलितव्यासभाष्यसमेतानि

ते तु-  

जातिदेशकालसमयानपच्छिन्नाः
सार्वभौमा महाव्रतम् ॥ ३१ ॥

तत्राहिंसा जात्यवच्छिमा मत्स्यैवधकस्य मत्स्येष्वेव नान्यत्र हिंसा । सैव देशावच्छिन्ना न तीर्थे हनिष्यामीति । सैव कालाव- च्छिन्ना न चतुर्दश्यां न पुण्येऽहनि हनिष्यामीति । सैव त्रिभि- रुपरतस्य समयावच्छिन्ना देवब्राह्मणार्थे नान्यथा हनिष्यामीति । यथा च क्षत्रियाणां युद्ध एव हिंसा मान्यत्रेति । एभिर्जाति देशकालसमयैरनवच्छिन्ना अहिंसादयः सर्वथैव परिपालनीयाः । मर्वभूमिषु सर्वविषयेषु सर्वथैवाविदितव्यभिचाराः सार्वभौमा महाव्रतमित्युच्यन्ते ॥ ३१॥

शौचसंतोषतपःस्वाध्यायेश्वर-
प्रणिधानानि नियमाः ॥३२॥

तत्र शौचं मृज्जलादिजनितं मेध्याभ्यवहरणादि च वाह्यम् । आभ्यन्तरं चित्तमलानामाक्षालनम् । संतोषः संनिहितसाधनाद- धिकस्यानुपादित्सा । तपो द्वंद्वसहनम् । द्वंद्वैाश्च जिघत्सापिपासे।

  सामान्यत उक्ता याद्वशाः पुनर्योगिनामुपादेयास्तादृशम्यक्तुं सूत्रमवतारयति-ते त्विति । जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् । सर्वासु जात्यादिलक्षणासु भूमिषु विदिताः सार्वभौमाः । अहिंसादय इत्यन्यत्राप्यवछेद ऊहनीयः । सुगमं भाष्यम् ॥३१॥

  शौचादिनियमानाचष्टे –शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः। व्याचष्ठे-शौचमिति । आदिशब्देन गोमयादयो गृह्यन्ते । गोमूत्रयावकादि मेध्यं तस्याभ्यवहरणादि । आदिशब्दादग्रासपरिमाणसंख्यानियमादयो ग्राह्याः । मेध्याभ्यय- हरणादिजनितमिति वक्तव्ये मेध्याभ्यवहरणादि चेयुक्तं कार्ये कारणोपचारात् । चित्तमला मदमानासूयादयस्तदपनयो मनःशौचम् । प्राणत्राणमात्रहेतोरभ्य- धिकस्यानुपादित्सा संतोपः प्रागेव स्वीकरणपरित्यागादिति शेषैः । [१]

  1. १ ग. छ. च. त्स्यबन्धक । छ. त्स्यवेध । २ ग. घ. छ. च्यते ॥ ३१ ॥ १ क. द्वंद्वं च जि । ग. घ. च. द्वंद्वश्च । ढ. द्वंद्वानि च जि । ४ ख. झ. णथागमा । ५ क. ख.झ. विशेषः।