पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
स० ३०]
१०३
पातञ्जलयोगसूत्राणि


भ्रान्ता वा प्रतिपत्तिवन्ध्या वा भवेदिति । एषा सर्वभूतोपका- रार्थ प्रवृत्ता न भूतोपघाताय । यदि चैवमप्यभिधीयमाना भूतोपघातपरैव स्यान सत्यं भवेत्पापमेव भवेत्तेन पुण्याभासेन पुण्यप्रतिरूपकेण कष्टं तमः माप्नुयात् । तस्मात्परीक्ष्य सर्वभूत- हितं सत्यं ब्रूयात् ।

 स्तेयमशास्त्रपूर्वक द्रव्याणां परतः स्वीकरणं, तत्प्रतिषेधः पुनरस्पृहारूपमस्तेयमिति । ब्रह्मचर्य गुप्तेन्द्रियस्योपस्थस्य संयमः । विषयाणामर्जनरक्षणक्षयसङ्गहिंसादोषदर्शनादस्वीकरणमपरिग्रह इत्येते यमाः ॥ ३० ॥ [१]


तदिदमुक्तस्योत्तरं न युधिष्ठिरस्य स्वबोध संक्रामयति । स्वबोधो ह्यस्य हस्तिहनन विषय इन्द्रियजन्मा, न चासौ संक्रान्तः किं त्वन्य एव तस्य तनयवधबोधो जात इति । भ्रान्ता वा भ्रान्तिजा बा, भ्रान्तिश्च विवक्षासमये वा लेयार्थावधारणसमये वा। प्रति. पत्त्या वन्ध्या प्रतिपत्तिवन्ध्या यथाऽर्थान्यति म्छेच्छभाषा प्रतिपत्तिवन्ध्या, निष्प्रयोजना का स्यादिति यथाऽनपेक्षिताभिधाना बाक्तन हि परत्र स्वबोधस्य संक्रान्तिरप्पसंक्रान्तिरेव निष्प्रयोजनत्वादिति । एवंलक्षणमपि सत्यं परापकारफलं सत्याभासं न तु सत्यमित्याह- एषेति । तद्यथा सत्यतपसस्तस्करैः सार्थयमनं पृष्टस्य सार्थगमनाभिधानमिति । अभिधी- यमानोच्चार्यमाणा । शेषं सुगमम् ।

  अभावस्य भावाधीननिरूपणतया स्तेयलक्षणमाह -स्तेयमशास्त्रपूर्वकमिति । विशे. षेण सामान्य लक्ष्यत इत्यर्थः । मानसव्यापारपूर्वकत्वाद्वाचनिककायिकव्यापारयोः प्राधान्या. न्मनोव्यापार उक्तोऽस्पृहारूपमिति । ब्रह्मचर्यस्वरूपमाह ---गुप्लेति । संयतोपस्थोऽपि हि स्त्रीवेक्षणतदालाषकन्दीयतनतदङ्गस्पर्शनसक्तो न ब्रह्मचर्यवानिति तन्निरासायोक्तं गुप्तेन्द्रियस्येति । इन्द्रियान्तराण्यपि तत्र लोलुपानि रक्षणीयानीति । अपरिग्रहस्वरूपमाह- विषयाणामिति । तत्र सनदोष उक्तो भोगाभ्यासमनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणामिति, हिंसालक्षणश्च दोषो नानुपहत्य भूतान्युपभोगः संभवतीति । अशास्त्रीया- णामयत्नोपनतानामपि विषयाणां निन्दितप्रतिग्रहादिरूपार्जनदोषदर्शनाच्छास्त्रीयाणामप्यु- पार्जितानां च रक्षणादिदोषदर्शनादस्वीकरणमपरिग्रहः ॥ ३०॥


  1. १ क. 'ते रागः कौं । २ क. पलभ्यानां ।