एतत् पृष्ठम् परिष्कृतम् अस्ति
९८ - वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ २ साधनपादे-
धिना हानम् । भावितो विवेकख्यातिरूपो हानोपाय इति । एषा चतुष्टयी कोर्या विमुक्तिः प्रज्ञायाः । चित्तविमुक्तिस्तु त्रयी चरिताधिकारा बुद्धिः । गुणा गिरिशिखरतटच्युता इव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति । न चैषां पविलीनानां पुनरस्त्युत्पादः प्रयोजनाभावादिति । एतस्यामवस्थायां गुणसंबन्धातीतः स्वरूपमात्रज्योतिरमल: केवली पुरुष इति । एतां सप्तविधाम् प्रान्तभूमिप्रज्ञामनुपश्यन्पु- रुषः कुशलं इत्याख्यायते । प्रतिप्रसवेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति गुणातीतत्वादिति ॥ २७ ॥
सिद्धा भवति विवेकख्यातिनोपाय इति, न च सिद्धि- रन्तरेण साधनमित्येतदारभ्यते----
योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञान- दीप्तिरा विवेकख्यातेः ॥ २८॥
निरोधसमाधिसाध्य हानं, न पुनरस्याः परं निश्चेतव्यमस्तीति शेषः । चतुर्थीमाह-- भावितो निष्पादितो विवेकख्यातिरूपो हानोपायो नास्याः परं भावनीयमस्तीति शेषः । एषा चतुष्टयी कार्या विमुक्तिः समाप्तिः, कार्यतया प्रयत्नव्याप्यता दर्शिता । कचि- पाठः कार्यविमुक्तिरिति । कार्यन्तरेण विमुक्तिः प्रज्ञाया इत्यर्थः । प्रयत्ननिष्पाद्यानुनि- प्पादनीयामप्रयानसाध्यां चित्तविमुक्तिमाह-चित्तविमुक्तिस्तु त्रयी । प्रथमामाह-चरि- ताधिकारा बुद्धिः । कृतभोगापवर्गकार्येत्यर्थः । द्वितीयामाह-गुणा इति । प्रान्तता- माह-न चैषामिति । तृतीयामाह-एतस्यामवस्थायामिति । एतस्यामवस्थायां जीवन्नेय पुरुषः कुशलो मुक्त इत्युच्यते चरमदेहत्वादित्याह-एतामिति । अनौपचारिक मुक्तमाह- प्रतिप्रसवे प्रधानलयेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति गुणातीतत्वा- दिति ॥ २७ ॥
तदेवं चतुरो ब्यूहानुकवा तन्मध्यपतितस्य हानोपायस्य विवेकख्यातेर्गोदोहना- दिवत्प्रागसिद्धरसिद्धस्य चोपायवाभावासिद्ध्युपायान्वक्तुमारभत इत्याह-सिद्धेति । तत्राभिधास्यमानानां साधनानां येन प्रकारेग विवेकख्यात्युपायत्वं तदर्शयति सूत्रेण --- योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः । योगाङ्गानि हि यथा-
११. छ. कार्यवि । २ ग. च. रकूट । ३ म. पापः, न । ४ च. 'मित्यतादा।