पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/322

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७७
पातञ्जलयोगसूत्रभाष्यविवरणे


[भाष्यम्]

 एवं प्रत्ययः एवं शब्दः नेतरेतरसहगत इति, अन्यथा शब्दः, अन्यथा अर्थः, अन्यथा प्रत्ययः, इति प्रविभागः । एवं तत्प्रविभागसंयमात् योगिनः सर्वभूतरुतज्ञानं सम्पद्यत इति ॥ १७ ॥

[ सूत्रम् ]

 संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ।। १८ ॥

[भाष्यम्]

 द्वये खल्वमी संस्कारा:-स्मृतिक्लेशहेतवो वासना1ऽभिधाना:, विपाकहेतवो धर्माधर्मरूपाः । ते पूर्वभवाभिसंस्कृताः परिणामचेष्टानिरोधशक्तिजीवनधर्मा2 अपरिदृष्टः चित्तधर्माः । तेषु संयमः संस्कारसाक्षात्क्रियायै समर्थः

[विवरणम्]

प्रत्ययाभावेऽपि भावात् । एवं प्रत्यय: न शब्दसहगतो नाप्यर्थसहगतः । इतराभावेऽपि भावात् । तथा शब्दः अपि, अर्थप्रत्ययव्यभिचारात्, इतेि एवम् अन्यथा अर्थः अन्यथा शब्दः अन्यथा प्रत्ययः इति प्रविभागः ! एवं च [तत्] प्रविभागसंयमात् इदं वर्णैः सङ्केतितैः वाक्यात्मकम् अभिव्यज्यमानम् 'अयमर्थ: प्रत्ययश्चायं' इति प्रविभागेन संयमात् प्रविभक्तपदपदार्थप्रत्ययानां स्वेन रूपेण साक्षात्करणात् योगिनः सर्वभूतरुतज्ञानं सम्पद्यते ॥ १७ ॥

 संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् । द्वये खल्वमी संस्काराः वासनाऽभिधानाः परिदृष्टाः अपरिदृष्टाश्च स्मृतिक्लेशहेतवः । परिदृष्टाः (उभयेऽपि) क्लेशकर्मविपाकानुभवनिर्वर्तिताः चित्तधर्माः धर्माधर्मरूपाः धर्माधर्मनिमित्ताः पूर्वभवाभिसंस्कृताः (ता)अतिक्रान्तानन्तजन्मनिष्पादिताः परिणामचेष्टानिरोधशक्तिजीवनधर्माः पूर्वव्याख्याताः अपरिदृष्टाः । तेषु द्वयेषु संस्कारेषु संयमः क्रियमाणः संस्कारसाक्षात्क्रियायै समर्थः भवति।

1. -रूपाः 2. -र्मवद