पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/321

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७७
विभूतिपादः तृतीयः




[भाष्यम्]

 तेषां शब्दार्थप्रत्ययानां विभागः । तद्यथा-श्वेतते प्रासाद इति क्रियाऽर्थः । श्वेतः प्रासाद इति कारकार्थः1 । क्रियाकारकात्मा तदर्थः प्रत्ययश्च ! कस्मात् ? सोऽयमित्यभिसम्बन्धात् 2अभेदाकारप्रत्ययः सङ्केत इति ॥

 यस्तु श्वेतोऽर्थः स शब्दप्रत्यययोरालभ्बनीभूतः । स हि स्वाभिरवस्थाभिः विक्रियमाणः न शब्दसहगतो न बुद्विसहगतः ।



[विवरणम्]

 अश्वश्चरतीति जातिवाचकम् । अश्वस्त्वं ग्राममिति श्वयतेर्लुङन्तस्य मध्यमपुरुषैकवचनान्तस्य प्रयोगः । अजापयः पीयतामिति नामपदम् । अजापयस्त्वं राजानमिति जपतेर्णिजन्तस्य लङ्मध्यमपुरुषैकवचनान्तस्य रूपम्,॥ तेषां शब्दार्थप्रत्ययानां सङ्करं प्रदर्श्य विभाग: प्रतिपाद्यते- श्वेतते प्रासाद इति क्रियार्थः । श्वेतः प्रासाद इति कारकार्थः । क्रियाकारकत्वाद्वस्तुनः श्वेतते श्वेत इति च क्रियार्थेन च कारकार्थेन चाभिधानम्

 यथा शब्दः क्रियाकारकात्मा, यः श्वेतः स श्वेतते यः श्वेतते स श्वेतः इत्येवं क्रियाकारकाध्यतिरिक्तः एकः शब्दः, तथा अर्थः तद्वाच्यः क्रियाकारकात्मा । तथा तद्विषयः प्रत्ययः क्रियाकारकात्मा । तथा अर्थः शब्दप्रत्ययात्मा । प्रत्ययोऽपि शब्दार्थात्मा । कस्मात् ? सोऽयमित्यभिसम्बन्धात् । योऽर्थः स शब्दः, यः शब्दः सोऽर्थः प्रत्ययश्च, यः प्रत्ययः सोऽर्थः शब्दश्च, इत्येवं अभेदाकारप्रत्ययः स्मृत्यात्मा सङ्केतः इति । एवं सङ्कररूपतः प्रविभागः कार्यः॥

 {{bold|कथम् ? यस्तु श्वेतोऽर्थः श्वेतगुणः प्रासादादिरर्थः स शब्दप्रत्यययोः आलम्बनीभूतः वाच्यत्वेन विषयत्वेन च । स हि स्वाभिरवस्थाभिः नवपुराणत्वादिभिः विक्रयमाणः न शब्दसहगतो न अपि बुद्धिसहगतः । शब्द-

1. -र्थः शब्दः { 2. एकाकार एव