पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/323

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७७
विभूतिपादः तृतीयः


[भाष्यम्]

 न च देशकालनिमित्तानुभवैर्विना तेषामस्ति साक्षात्करणम्। तदित्थं संस्कारसाक्षात्करणात् पूर्वजातिज्ञानमुत्पद्यते योगिनः। परत्राप्येवमेव संस्कारसाक्षात्करणात् परजातिसंवेदनम् ॥

 अत्रेदमाख्यानं श्रूयते-भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणात् दशसु महासर्गेषु जन्मपरिणाम1 मनुपश्यतः विवेकजं ज्ञानं प्रादुरभूत् । अथ भगवान् आवट्यः तनु [तन्त्र} धरः तमुवाच-दशसु महासर्गेषु भव्यत्वात् अनाभिभूतबुद्विसत्त्वेन त्वया नरकतिर्यग्ग-2 मनदुःखं3 अनुपश्यता देवमनुष्येषु पुनः पुनः उत्पद्यमानेन सुखदुःखयोः केिमधिकमुपलब्धम् इति ।

[विवरणम्]

 ते च देशकालनिमित्तानुभवविशिष्टतया निर्वर्तितत्वात् साक्षात्करणकालेऽपि देशादिविशेषणविशेष्टा एव प्रत्यक्षीभवन्ति . . .  तदित्थं संस्कारसाक्षात्करणात् पूर्वजातिज्ञानमुत्पद्यते योगिनः । परत्रापि प्राणिषु एवमेव येषां जातिं बुभुत्सते तदीयसंस्कारेषु संयमात् [संस्कारसाक्षात्करणात्] तत्पूर्वजातिज्ञानमुत्पद्यते ॥ .م ,

 तत्न संस्कारसाक्षात्करणफलव्यञ्जनार्थम् इदमाख्यानमुपक्षिप्यते— भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणात् दशसु महासर्गेषु जन्मपरिणामं अनुपश्यतो विवेकजं वैराग्यानिमित्तं ज्ञानं प्रादुरभूत् ॥

 अथ भगवान् आवटयः तन्त्रधरः तमुवाच--दशसु महासर्गेषु [ भव्यत्वात्] अनभिभूतबुद्धिसत्वेन त्वया नरकतिर्यग्गमनदुःखमनुपश्यता देवमनुष्येषु पुनःपुनः उत्पद्यमानेन सुखदुःखयोः किमुपलब्धमधिकमिति ॥

 फलकम्:Bold'''

1.मक्रम

2.र्भसम्भवं

3.संप-