पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

गुरुपादाः प्रसादाय ध्यानाध्यक्षीकृता अपि ।
भवन्त्येवेति निश्चित्य प्रदेशेऽत्र समागमम् ॥ ३०८॥
साक्षादिव गुरुं पश्यन्नभ्यर्च्य प्रतिमामिमाम् ।
दिवानिशमिषून्पश्यन्नभ्यासमहमादधे ॥ ३०९ ॥
नमोऽस्तु गुरवे तस्मै प्रसादाद्यस्य पश्यतः ।
मादृशो मलिनात्मापि विधत्ते चापचापलम् ॥ ३१० ॥
यो हि स्मरणमात्रेण हन्ति संतमसं भृशम् ।
अवाप्नोतु गुरोस्तस्य तरणिः करणिः कथम् ॥ ३११ ॥
इति जल्पन्तमानन्दात्तं सरोमाञ्चकञ्चकम् ।
अतुच्छपार्थवात्सल्यविवशो गुरुरब्रवीत् ॥ ३१२ ..]
पल्लीन्द्रपुत्र चेदस्मि गुरुरङ्गीकृतस्त्वया ।
तदत्रार्थे कृतार्थेन दीयतां गुरुदक्षिणा ॥ ३:१३ ॥
एकलव्यस्तदाकर्ण्य विकखरमुखाम्बुजः ।
तं बभाषे प्रभो ब्रूहि वस्तु किं ते सुदक्षिणा ॥ ३१४ ॥
विभवो वा शिरो वास्तु मदीयं तव दक्षिणा ।
एतेनाप्याधमा ते न विमुच्येय निश्चितम् ॥ ३१५ ॥
इत्युक्तो गुरुरप्यूचे वाचं निस्त्रिंशतोचिताम् ।
वामेतरकराङ्गुष्ठो निलयं मम दीयताम् ॥ ३१६ ॥
तन्निशम्य प्रसन्नास्यः कृतार्थमन्यमानसः ।
सोऽसिधेनुकया छित्वा गुरवेऽङ्गुष्ठमर्पयत् ॥ ३१७ ॥
पुष्पवृष्टिः सुरैर्मुक्ता तस्योपर्यपतत्तदा ।
गुरुभक्तिर्द्वितीयेन कः सत्त्वेन न रज्यते ॥ ३१८ ॥
द्रोणाचार्योऽपि साश्चर्यः प्रीतचेतास्त्रपानतः ।
तमाश्लिष्याभ्यधावत्स दुष्करं कृतवानसि ॥ ३१९ ॥
अतःप्रभृति कोदण्डमङ्गुलीभिरपि स्फुटम् ।
आकर्षन्नपराद्धेपुः कदाचिन्न भविष्यसि ॥ ३२० ॥