पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२ काव्यमाला।

क्रीडाजुषां कुमाराणां पुरीपरिसरेऽन्यदा ।
तदीयाद्यातभीत्येव कूपान्तः कन्दुकोऽपतत् ॥ २३० ॥
विदधुर्विविधोपायान्कन्दुकाकर्षणं प्रति ।
परां क्लान्तिं कुमारास्ते वृथारम्भास्तु लेभिरे ॥ २३१ ॥
तेष्वेवं क्लिश्यमानेषु वर्षीयान्पथिको द्विजः ।
विप्रेण सममेकेन यूना कश्चिदुपागमत् ॥ २३२ ॥
ततो जगदिरे तेन कुमारास्ते द्विजन्मना ।
एतस्य कन्दुकस्यार्थे कथं ताम्यन्त पुत्रकाः ।। २३३ ॥
इयं वो मधुरा मूर्तिरियं विस्फूर्तिरुत्तरा ।
इयं वश्चातुरी चापे किणसंचयसूचिता ॥ २३४ ॥
तदल्पीयसि कार्येऽस्मिन्किमारम्भोऽयमीहशः।
करप्राप्ये फले को हि समारोहति भूरुहम् ।। २३५ ॥
तदेषोऽहमिदानी वः करिष्यामि समीहितम् ।
इत्युक्त्वादर्शयत्तेषामिषीकां करवर्तिनीम् ॥ २३६ ॥
मयाभिमन्त्रिता ह्येताः समानेष्यन्ति कन्दुकम् ।
इत्याख्यायाक्षिपत्तासामेकं विप्रोऽनुकन्दुकम् ॥ २३७ ॥
बिभेद कन्दुकं सद्यः सा च नाराचलीलया।
सुहस्तहस्तमुक्तानि बाणायन्ते तृणान्यपि ॥ २३८ ॥
अन्ते तामन्ययाविध्यतामप्यपरया तथा
एवं परम्परायोगादुपादत्त स कन्दुकम् ।। २३९ ॥
भुवनाद्भुतभूतेन कर्मणा तेन विस्मिताः ।
प्रणम्य बद्धाञ्जलयः कुमारास्तं व्यजिज्ञपन् । २४० ॥
आयक्षांचक्रिरेऽस्माभिश्चापाचार्याः सहस्रशः।
परं नृलोके नालोकि कस्यापि प्रौढिरिदृशी ॥ २४१ ।।
गुरुर्वा त्वं पिता वा त्वमस्माकमसि संप्रति ।
एते स्मः किंकराः सर्वे ब्रूहि कि करवाम ते ॥ २४२ ॥