पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् । १०१

अत्रैवास्ति कृपो नाम कलाचार्यः प्रसिद्धिभाक् ।
देवस्य शान्तनोनित्यं यत्रासीत्पुत्रवासना ।। २१७ ॥
स वः प्रार्थनया विद्वानेतानध्यापयिष्यति ।
लभ्यतेऽयमुपाध्यायः पुण्यैरत्यन्तपीवरैः ॥ २१८॥
तत्समाकर्ण्य गाङ्गेयः कुमारान्निखिलानपि ।
समाकार्य कृपाचार्यमध्यापयितुमार्पयत् ॥ २१९ ।।
अध्यगीषत ते शास्त्रं शब्दपारायणादिकम् ।
ततः प्रारेभिरेऽध्येतुं धनुर्वेदमनिर्विदः ।। २२०॥
लघुसंधानविच्छेदप्रहारच्छेकबाहवः ।
तेषामभूवन्भूयांसः शस्त्रे सब्रह्मचारिणः ॥ २२१ ॥
इतोऽभूत्तत्र वास्तव्यः सधर्मा विश्वकर्मणः ।
पुमानतिरथिर्नाम सदाचारैकमन्दिरम् ।। २२२ ॥
विधोरिवानुराधाभूत्तस्य राधा सधर्मिणी ।
कदाचिदपि या नैव ज्येष्ठोपास्तिमपास्यत ॥ २२३ ॥
तयोः कर्ण इति ख्यातः सुतः सत्त्वैकभूरभूत् ।
यत्रौदार्यं च शौर्यं च द्वयं निःसीमतां गतम् ॥ २२४ ॥
पङ्कोपमे कुले तस्मिन्परां वृद्धिमुपेयुषः ।
नलिनस्येव तस्यासीदुत्तमैरेव संगतिः ।। २२५॥
कलाकूपारपाराय स्पृहयालरहर्निशम् ।
स शिष्यान्शस्त्रशास्त्राणामियेष गुरुसंनिधौ ॥ २२६ ॥
प्रणिपत्य कृपाचार्यमेत्य सोऽपि खलूरिकाम् ।
कुमारैः सममाधत्त शस्त्रश्रममनारतम् ॥ २२७ ॥
कृपाचार्योपदेशस्य स्वातिवर्षस्य सर्वतः ।
तेषु कर्णकिरीटिभ्यां मुक्ताशुक्तिपुटायितम् ॥ २२८॥
आत्तेऽपि विद्यासर्वस्वे कृपाचार्यात्समंततः ।
किरीटिकर्णयोः प्रज्ञा मनागपि न तृप्यति ॥ २२९ ।।

शस्त्राभ्यासभूमिम् ।