पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम्।

ततः सर्वप्रकारेण मम वध्यो युधिष्ठिरः।
उदीयमानोऽप्युच्छेद्यो विरोधी व्याधिवद्बुधैः ।। १९१ ।।
किं त्वसाध्यः परीतोऽयं भीमेन विजयेन च ।
भूपाल इव संपन्नो विक्रमेण नयेन च ॥ १९२ ।।
ततो भीमार्जुनावेव पुरस्ताद्वधमर्हतः ।
द्वौ दुर्वारमहावीर्यावजातारेर्भुजाविव ॥ १९३ ॥
तत्रापि प्रथमं निर्भिर्भीमो निःसीमविक्रमः।
कीनाशपुरवास्तव्यः कर्तव्यः प्रसभं मया ॥ १९४ ।।
व्यापादिते मयांमुष्मिन्युधिष्ठिरकिरीटिनौ ।
भवितारौ हठात्कृष्टस्तम्भप्रासाददुर्बलौ ।। १९५ ॥
तदा नियुद्धसंबन्धरजःपरिचयादिव ।
मलीमसामिमां सन्ध्यां चक्रे दुर्योधनो रहः ।। १९६ ।।
ततश्छिद्राणि दुष्टात्मा भीमस्य खच्छचेतसः ।
नित्यमन्वेषयामास स नटः कूटनाटके ॥ १९७ ॥
परं विविधकेलीषु गङ्गायाः कूलपालिषु ।
समः सर्वैः कुमारैस्तैः सोऽपि चिक्रीड सर्वदा ॥ १९८ ॥
कुमारान्क्रीडतस्तत्र विदित्वा सुतवत्सलः ।
भूपतिः कायमानानि कमनीयान्यकारयत् ॥ १९९ ॥
क्रीडाशौण्डतया तेषु भक्तिं सुप्तिं च ते व्यधुः ।
सर्वदाप्यधिकः किं तु भीमोऽभूद्भोजनावधि ॥ २००॥
कूले परेद्युर्गङ्गायाः सौगन्धिकसुगन्धिनि ।
सुष्वाप सिकतातल्पे केलिश्रान्तो वृकोदरः ॥ २०१॥
आहारं मधुरं स्निग्धं तस्य भुक्तवतस्तदा ।
बभूव सुखनिद्रापि दीर्घनिद्राविजित्वरा ॥ २०२ ॥
इदमन्तरमासाद्य दुष्टबुद्धिः सुयोधनः ।
भीमं बद्ध्वा लतापाशैः प्रचिक्षेप छलाज्जले ॥ २०३ ।।