पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।

धृत्वा कदाचित्पादाग्रे क्रोशमात्री भुवं नयन् ।
नासाजानुललाटादौ त्वचयामासिवानसौ (1) ॥ १६५ ॥
तान्बध्वा बाहुपाशेन मज्जयित्वा चिरं जले।
भीमः केलिप्रियो जातु मृतप्रायानमुञ्चत ।। १६६ ।।
धार्तराष्ट्राः कनीयांसः क्रीडन्तस्ते कदाचन ।
कुतूहलात्कपित्थादीनुच्चानारुरुहुस्तरून् ॥ १६७ ॥
ततः पादप्रहारेण तानाहत्य महीरुहान् ।
फलैः सार्धमपात्यन्त ते भीमेन भुवस्तले ॥ १६८ ॥
खेदिता अपि भीमाय न ते किंचन चुक्रुधुः ।
स्नेहोऽयं न पुनर्द्रोहस्तस्येति ज्ञातपूर्विणः ॥ १६९ ॥
लब्धास्पदं मनोधात्र्यां वैरिभूरुहकारणम् ।
मात्सर्यबीजमाबाल्यादभूद्दुर्योधनस्य यत् ॥ १७० ॥
तदानीं भीमसेनस्य बलविस्फूर्तिकीर्तिभिः ।
तच्चक्रे किंचिदुच्छूनं नव्याभिरिव वृष्टिभिः ॥ १७१ ।।
ओजायितानि भीमस्य खिद्यमानांश्च बान्धवान् ।
वीक्ष्यावलेपात्कोपाच्च बाढं दुर्योधनोऽभ्यधात् ॥ १७२ ॥
कदर्थ्यन्ते कथं भीम भ्रातरोऽमी स्तनंधयाः ।
तव दोर्दण्डकण्डूतिहरोऽस्मि तदुपेहि माम् ॥ १७३ ॥
तेनेत्थं स्पर्धमानेन समाहूतो वृकोदरः।
अभ्यधत्त महाभाग नाहं बन्धुषु दुर्मनाः ॥ १७४ ॥
परमित्थं मम स्नेहचापल्यं पर्यवस्यति ।
वनेषु दन्तिनो दन्तक्रीडापि तरुभचिनी ।। १७५ ॥
ततोऽवलेप कोपं वा मुधा दुर्योधन व्यधाः।
यद्वा नैवास्ति मर्यादा काप्यनालोच्य वादिनाम् ॥ १७६ ॥
त्वया हि मम दोःकण्डूर्न मनागप्यपोह्यते ।
न ह्येरण्डो गजेन्द्रस्य कटकण्डूयने क्षमः ॥ १७७ ॥