पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।

तच्चाकर्ण्य-विषं कर्णपुटयोरम्बिकासुतः ।
पुनःपर्यनुयुङ्क्ते स्म कुले शान्तिः कथं भवेत् ॥ १३९ ॥
अथ संदेहसंदोहच्छिदुरो विदुरस्तथा ।
अप्रेयोऽपि वचः पथ्यं तथ्यं च तमुदाहरत् ॥ १४० ॥
निखिलस्य कुलस्यास्य क्षेमं चेत्कर्तुमिच्छसि ।
तदेनमेनसां पात्रं दुष्पुत्रं त्यक्तुमर्हसि ॥ १४१ ॥
तनयेनापि किं तेन कुलप्रलयकारिणा ।
तेन हेम्नापि किं कार्यमार्यं कर्णौ छिनत्ति यत् ॥ १४२ ॥
आसतां शतमेकोनमपि खस्तिकृतः सुताः ।
अल्पमल्पेतरस्यार्थे त्याज्यमिस्थं विदुर्बुधाः ।। १४३ ॥
आम्बिकेयस्तदाकर्ण्य न यावत्प्रत्यभाषत ।
पाण्डुरुड्डामरप्रीतिस्तावद्विदुरमभ्यधात् ॥ १४४ ॥
ईदृशानि न लभ्यन्ते पुत्रभाण्डानि कुत्रचित् ।
ममोपयाचितैरेष जातो दुर्योधनः सुतः ॥ १४५ ॥
क्षयः कुलस्य चेत्पुत्रादृद्धिस्तर्हि कुतो भवेत् ।
भानोश्चेद् ध्वान्तमाकाशे प्रकाशः स्यात्कुतस्ततः ॥ १४६ ॥
युधिष्ठिरादपि ज्येष्ठः पूर्वं गर्भावतारतः ।
असौ राज्याब्जसविता भविता गोत्रवर्धनः ॥ १७ ॥
तच्छिवाः सन्तु पन्थानः स्वस्थानगमनाय वः ।
अभिधायेदमास्थानादुदस्थात्पाण्डुभूपतिः ॥ १४८॥
दुर्योधनस्य दुःशल्या नाम यामिर्बभूव या ।
सिन्धूनामधिराजस्तामुपयेमे जयद्रथः ॥ १४९ ।।
अथ ते धृतराष्ट्रस्य वर्धन्ते स्म शतं सुताः ।
दोष्णोर्येषां स्म जागर्ति स्फूर्तिस्त्रैलोक्यतोलने ॥ १५० ॥
धार्तराष्ट्राः शतं पञ्च पाण्डवास्ते तु संहताः।
शतं पञ्चोत्तरं स्वैरं रेमिरे हस्तिनापुरे ॥ १५१ ।।

.