पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

आदित्यकेतुर्बह्वाशी निर्बन्धोऽपि प्रयास्यपि ।
कवची रणशौण्डश्च कुण्डधारो धनुर्धरः ॥ १२६ ॥
उग्ररथो भीमरथः शूरवाहुरलोलुपः ।
अभयो रौद्रकर्मा च तथा दृढरथाभिधः ॥ १२७ ॥
अनाधृष्टः कुण्डभेदी विराजी दीर्घलोचनः ।
प्रमथश्च प्रमाथी च दीर्घालापश्च वीर्यवान् ॥ १२८ ॥
दीर्घबाहुर्महावक्षा दृढवक्षाः सुलक्षणः !
कनकः काञ्चनश्चैव सुध्वजः सुभुजस्तथा ॥ ११९ ॥
विराजश्चेत्यमी सर्वे रणकर्मविशारदाः ।
सर्वे शौण्डीरदोर्दण्डाः सर्वे सर्वार्थकोविदाः ॥ १३० ॥
धृतराष्ट्रोऽथ भीष्मादीनुपावेश्य परे दिवि [ने] ।
मौहूर्तिकान्समाहूय पप्रच्छ स्वच्छमानसः ॥ १३१॥
आख्यातमशरीरिण्या भारत्या यद्युधिष्ठिरः ।
भविता भुवनश्लाघ्यो न कोऽप्यत्रास्ति संशयः ॥ १३२ ॥
किंत्वनन्तरमेतस्माद्राजा दुर्योधनः किमु ।
भविष्यति न वेत्येवं ज्ञानेनालोच्य शंसितः ॥ १३३ ॥
अत्रान्तरे दिगन्तेषु रजोभिः परिजृम्भितम् ।
उदतिष्ठन्त निर्घाताश्चकम्पे च वसुंधरा ।। १३४ ।।
शिवाश्चाशिवशंसिन्यो विरेसुर्विरसं तथा ।
मार्तण्डमण्डलं चाभूत्परिवेषेण भीषणम् ॥ १३५॥
एतानि दुनिमित्तानि प्रेक्ष्य तल्लक्षणानि च ।
ज्ञानिनः सर्वविदुरं विदुरं प्रत्यचीकथन् ।। १३६ ॥
अयमूर्जस्खलो राजा राजचक्रविजित्वरः ।
भविष्यति परं कालः कुलस्य च जनस्य च ।। १३७ ।।
इति नैमित्तिकादिष्टमनिष्टं विदुरस्ततः ।
सभासमक्षमाचख्यौ धृतराष्ट्रस्य शृण्वतः ।। १३८ ।