पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

रिङ्खन्दुर्योधनः पश्चादेत्य भीमेन रिङ्खता ।
बलिना बालचापल्याद्धृत्वा पादे जिघृक्षया ॥ ४८ ॥
कदाचिच्च स भीमेन प्रीत्या मात्रा समर्पितम् ।
भक्ष्यं हठेन हस्ताग्रादाच्छिद्योच्चैररोद्यत ॥ १९ ॥
मिथः कलिकरौ जातु जातु केलिपरायणौ ।
एकत्रैव भुजो जातु तावभूतामनारतम् ॥ ५० ॥
हासयन्नथ वासन्तीं चन्द्रिकाचन्दनाञ्चितः ।
मल्लिकामोदसुरभिः सुरभिः समजृम्भत ।। ५१ ॥
वसन्तेनोपनीतानि प्राप्य चूताङ्कुरच्छलात् ।
नवान्यस्त्राणि पुष्पास्वस्तृणं जगदजीगणत् ।। ५२ ॥
जगज्जिगीषोः पञ्चेषोः प्रयाणे जयशंसिनः ।
ध्वनयो दुन्दुभीयन्त मधुराः पिकयोषिताम् ॥ ५३ ॥
गलद्वहुलकिञ्जल्कपङ्किलीभूतभूतलम् ।
पुष्पडम्बरितं पाण्डुः क्रीडावनमथागमत् ॥ ५४ ॥
भीमं षण्मासदेशीयमादाय मधुराकृतिम् ।
पत्या सह ययौ कुन्ती वसन्तश्रियमीक्षितुम् ॥ ५५ ॥
विकाशिकेशरे पुष्प्यत् तिलके चारुचम्पके ।
पल्या साधै वने राजा विजहार मनोरमे ॥ ५६ ॥
लीलयापि क्षिपन्पाणिं बालः सुलभचापलः ।
मूलादुन्मूलयामास विविधान्सविधदुमान् ॥ ५७ ॥
प्रियया सार्धमासाद्य दोलान्दोलनकौतुकम् ।
आरुरोह महीपालः सहेलः केलिपर्वतम् ॥ ५८ ।।
कुन्त्यपि प्रेक्षितुं शीलग्रामणी रामणीयकम् ।
समारोहद्वरारोहा पत्यानुपदिका मुदा ॥ ५९॥
स्वैरमाराममारामं वापी वापी सरः सरः ।
सर्वमालोकयांचक्रे गिरेस्तस्य नृपप्रिया ॥६०॥