पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

अथ ज्ञातप्रबन्धाभिरेत्य वृद्धाभिरादरात् ।
प्रत्यषिध्यत सा बाढं मा मा मेत्युक्तिपूर्वकम् ॥ २२ ॥
अजल्पंश्च पपातेदं पुत्ररत्नं तवोदरात् ।
अभाग्येनार्धनिष्पन्नं वायुनेव तरोः फलम् ॥ २३ ॥
एतत्तु तव कल्याणि न मौग्ध्यं ज्ञातुमीश्महे ।
यदुपक्रमसे त्यक्तुमवस्करमिवात्मजम् ॥ २४ ॥
अथ साकथयत्तथ्यं मातरः शृणुत क्षणम् ।
गर्भाधाने ममामुष्मिन्प्रवृत्तमिव चेतसा ॥ २५ ॥
अहं महीपतेः पत्नी न तावदभवं पुरा ।
भविष्यामि महीपालमाता त्वेतत्प्रसादतः ॥ २६ ॥
इत्थं मयि कृताशायां कुन्त्यसूत युधिष्ठिरम् ।
तां संप्रत्यहमश्रौषमासन्नप्रसवां पुनः ॥ २७ ॥
ततो मेदस्विनिर्वेदात्स्वं निन्दन्ती मुहुर्मुहुः ।
तूर्णप्रसवसाकाङ्क्षा कुक्षिं निजमकुट्टयम् ॥ २८ ॥
उशन्ति सत्यमेवैतद्बुद्धिः कर्मानुसारिणी ।
तदिदं जातमीक्षध्वं ब्रूत यत्तत्करोम्यहम् ॥ २९ ॥
ततस्तामभ्यधुर्वृद्धा आधिं वत्से मुधा व्यधाः ।
कर्माणि हि प्रतिप्राणि पृथक्प्रसवते फलम् ॥ ३० ॥
वत्से मात्सर्यमुत्सार्य परमार्थे मनः कुरु ।
पश्यैकाग्रमनाः कुन्ती धर्ममाराधयत्यलम् ॥ ३१ ॥
धर्मप्रभावसंपन्ननिःशेषाभीष्टसंपदि ।
ततश्च मत्सरं वत्से धत्से कुन्त्यां कथं वृथा ॥ ३२ ॥
स्वल्पैः कल्पद्रुमप्रायैर्धम नोपमिमीमहे ।
संकल्पतुलया ते हि यल्लोकमुपकुर्वते ॥ ३३ ॥
यदीच्छावीरुधं वत्से विधातासि फलेग्रहिम् ।
धर्मालवालमेतस्याः सिञ्च श्रद्धामृतस्ततः ।। ३४ ॥