पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

किंतु क्षेत्रं च कालं च समाश्रित्य शरीरिणाम् ।
भवन्ति भागधेयानि विविधानि न संशयः॥ ४५७ ॥
ततः क्षेत्रमिदं मुक्त्वा पश्चिमाम्भोधिरोधसि ।
युष्माभिः सपरीवारैर्गम्यतामधुना द्रुतम् ॥ ४५८ ॥
तस्मिन्यत्र स्थितः कृष्णो भाग्यजागरडिण्डिमौ ।
सत्यभामा सुतौ सूते तत्र स्थाप्या पुरी वरा ॥ ४५९ ।
इत्युपश्चुत्य सत्कृत्य तं विसृज्य प्रजेश्वरः।
कृशार्तमथुरालोकैः सह प्रस्थानमादधे ॥ ४६० ॥
बिभ्राणो भाविकल्याणपिशुनैः शकुनैर्मुदम् ।
सरिद्भूधरकान्ताराण्यतिचक्राम स क्रमात् ॥ ४६१ ॥
स क्रोष्टुकिसमादिष्टे पश्चिमाम्भोधिरोधसि ।
सैन्यं निवेशयामास वितीर्णनगरभ्रमम् ॥ ४६२ ॥
सुतावसूत सत्यापि तत्र सौस्थ्येन तस्थुषी ।
कल्पद्रुमावविद्राणसुवर्णा मेरुभूरिव ॥ ४६३ ॥
ततो नैमित्तिकादेशात्केशवो लवणाधिपम् ।
सुस्थितं संमुखीकर्तुमकार्षीदष्टमं तपः ॥ ४६४ ॥
आइतस्तापसस्तेन रत्नप्राभृतसंभृतः ।
उपेन्द्रमुल्लसप्रीतिरुपतस्थेऽथ सुस्थितः ॥ ४६५ ॥
व्याहरच्च हृषीकेशं निदेशस्थितमात्मनः ।
जनमेनं विजानीहि ततः कार्ये नियोजय ॥ ४६६ ।।
प्रीत्या प्रत्याह गोविन्दस्तोयधेः संनिधेहि मे।
प्रवरं नगरीस्थानं पूर्वकेशवरूढितः ॥ ४६७ ॥
इत्युक्तो नगरीभूमि पाञ्चजन्यं च मञ्जुलम् ।
कौस्तुभं च मुकुन्दाय प्रदायान्तर्दधेऽम्बुधिः ॥ ४६८ ॥
अहोरात्रेण तत्रेन्द्रनिदेशाद्धनदः स्वयम् ।
चक्रे द्वारवतीं नाम विजितस्वपुरी पुरीम् ॥ ४६९ ॥