पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला ।

कंसेन कृष्णभीतेन स्वात्मरक्षणकाङ्क्षिणा ।
जरासन्धस्य यत्पूर्वमानिन्ये सैन्यमुद्भटम् ॥ ४३१ ॥
हन्तुं कंसस्य हन्तारमहंकारवशादृशम् ।
सर्व संमर्दयामासुस्तं दुर्योधमुदायुधम् ।। ४३२ ॥
समुद्रविजयानीकैस्तद्वलं मगधेशितुः ।
प्रभञ्जनैरिव रजस्तूर्ण निन्ये विशीर्णताम् ॥ ४३३ ॥
बन्धुविध्वंससामर्षः कंसं स्वकुलपांसनम् ।
रङ्गाहहिर्निचिक्षेप धृत्वा कोशेषु केशवः ॥ ४३४ ॥
अतः किलकिलारावमुखराः शौरिवेश्मनि ।
दत्त्वा श्रीस्थानमास्थानं तस्थुः सर्वेऽपि यादवाः ॥ ४३५ ॥
हृष्टो रथमनाधृष्टिबलेन सह केशवम् ।
आरोप्य प्रापयामास शौरिर्मन्दरमादरात् ॥ ४३६ ॥
कृष्णमायान्तमालोक्य लोकोत्तरवपुःश्रियम् ।
पिबन्तो नेत्रपुटकैर्यादवाः प्रययुर्मुदम् ॥ ४३७ ।।
शौरिस्तु निकषापत्यस्खेहसोल्लासमानसः ।
प्रत्युद्दाय हृषीकेशमाशिश्लेष मुहुर्मुहुः ॥ ४३८ ॥
पादारविन्दं गोविन्दो ववन्दे ज्यायसः पितुः ।
तं सोऽप्युद्धररोमालिमालिङ्गयाङ्के न्यवेशयत् ।। ४३९ ॥
समुद्रविजयः पश्यन्नास्यतामरस हरेः ।
संपन्नसुमनोभावः स्वं चक्रे निर्निमेषताम् ॥ ४४०॥
अभ्येत्य देवकी तत्र प्रस्रवल्लिन्नकञ्चका ।
चिरेण पुत्रगात्रस्य स्पर्शसौख्यमशिश्रयत् ।। ४४१ ॥
चकार मथुरानाथमुग्रसेनं नरेश्वरम् ।
सत्यभामा सुतां सोऽपि जिष्णवे विष्णवे ददौ ॥ ४४२॥
दिव्यस्य धनुषः पूर्वमारोपणपणीकृताम् ।
गुरुभिस्तामनुज्ञातः परिणिन्ये जनार्दनः ॥ ४४३ ॥