पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । इत्येतत्किल पाण्डवेयचरितं पर्याप्तमेतस्य तु व्रुमः किं महिमानमन्वहमपि व्यातन्महेऽस्मै नमः । यस्यैककमलङ्घिहितान्यचरितारण्यापि विद्वदची "श्राम्यतीव पादपतपरासीमानमालम्विते ॥ २७५ ॥ एतस्य स्तुतये कुतूहलतया जिद्वान्तयोगासना- न्यध्यास्ते कविमण्डलस्य नियतं देवी गिरामीश्वरी । कुण्ठीयन्ति कनीयसापि कवितुं येऽन्ये प्रबन्धान्मुहुः तेऽप्यस्मिन् किमपि प्रगल्भवचसो वाचस्पतीयन्ति यत् ।।२७६|| एतस्मिन् व्यवहारकौगलमिह व्युत्पत्तयः प्रश्रय- प्रायेषु प्रसभं गुणेषु दधते वैदग्ध्यममाद्विरः । अस्मिन् संवननं प्रपञ्चपटिमा कतिरुदात्तकम- स्त्रैलोक्याभयदानपीनमहिमा धर्मोऽप्यमुस्मिन् परः ।। २७७ ॥ एकस्यापि महात्मनोऽस्ति चरितं यस्मिंस्तदप्यास्पदं कल्याणस्य न कस्य यत्पुनरलंचक्रुस्त एतेऽद्धताः । श्रीनेमिर्मुशली हरिप्रतिहरी पाण्डोः सुताः कौरवा भीष्मः कर्णकृपादयश्च वहवस्तस्यास्य किं ब्रूमहे ॥ २७८ ॥ किंत्वस्मिन्नियमस्ति दोपकणिका वक्ता यदस्मादृशः सन्तः सच्चरितामृतैकरसिकारतस्यामनास्थापराः । सौरभ्यस्पृहयावतंसपदवी पङ्केरुहं लम्भयन् पङ्कोत्पत्तिकलङ्कमस्य मतिमान् को नाम मीमांसते ॥ २७९ ॥ पष्ठाङ्गोपनिपत्रिपप्टिचरिताद्यालोक्य कौतूहला- देव तत्कन्दलयाचकार चरितं पाण्डोः सुतानामहम् । तत्राज्ञानतमस्तिरस्कृतिवशादुत्सूत्रमुत्सूत्रयं यस्किंचित्किल मय्यनुग्रहधिया शोध्यं तदेतद्बुधैः ॥ २८ ॥ १. 'मासूत्रयं भवेत्.