पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७१२ काव्यमाला। तत्तमेव पुरस्कृत्य प्रत्यासन्ने नगोत्तमे । आरुह्य विमलाख्येऽसिन्कुर्महे निजमीप्सितम् ॥ २६४ ॥ अत्र हि क्षीणनिःशेषकर्मसंततयः पुरा । मुनयः पुण्डरीकाद्याः कोटिशः प्रययुः शिवम् ।। २६५॥ तदयं सर्वतीर्थेषु महत्तीर्थं गिरीश्वरः । अस्माकमप्यभीष्टार्थसिद्धये भविताधुना ॥ २६६ ॥ इत्यालोच्य तमद्रीन्द्रमारोहन्पाण्डवाः क्षणात् । दुःसाध्येऽपि न साध्येऽर्थे मन्दायन्ते महाशयाः ॥ २६७ ।। गिरेः शिरसि ते तस्य विधायाराधनाविधिम् । धर्मघोषगुरोः पार्श्वे चक्रिरेऽनशनक्रियाम् ।। २६८ ।। अथेक्षमाणा भृशमात्मतुल्यान् जगत्यशेषानपि देहभाजः । साम्यामृताम्भोनिधिमज्जनैकप्रशान्तमन्तःकरणं वहन्तः ॥ २६९ ॥ मतिं सितध्यानसमाधिबन्धप्रबन्धमैत्रीमधुरां दधानाः । निश्रेणिकल्पां शिवमन्दिरस्य श्रेणिं श्रयन्तः क्षपकाभिधानाम् ॥२७॥ सर्वक्रियाकौशलशालिचेतसां निर्यास्यमाणा गुरुणैव तेन ते । आसादयामासुरसादितौजसः क्रमात्रिलोकीकृतकेलिकेवलम् ॥ २७१ ॥ धर्मं विशुद्धमुपदिश्य ततः सदैव मर्त्यासुरे सदसि योगजुषो मुहूर्तम् । पाण्डोः सुताः क्षणमयोगिगुणास्पदे ते विश्रम्य मुक्तिपदमक्षयसौख्यमीयुः ॥ २७२ ।। तत्पदागमनकाम्यविक्रमा निर्मलानशनकर्मपाविनी । नन्दिनी द्रुपदभूभुजोऽपि सा ब्रह्मलोकमतुलश्रियं ययौ ॥ २७३ ।। हुताशे संस्कार त्रिदशतरुदारुप्रणयिमि- स्तदङ्गानां तत्तद्विधिमधुरमाधाय विबुधाः । जगत्काम्ये तस्मिन्गिरिशिरसि निर्वाणमहिमा- महं चक्रुर्नृत्यत्सुरयुवतिसंगीतकमयम् ॥ २७ ॥