पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ७११ निर्वापिते चिताग्नौ च मेधेः क्षीरोदवारिभिः । देवैर्भूपैर्जनैश्चान्यैरस्थ्यादि जगृहे प्रभोः ॥ २५२ ॥ तस्मिंश्च वह्निसंस्कारपूतरत्नशिलातले । सूत्रमासूत्रयामास श्रीनेमिजिनमन्दिरम् ॥ २५३ ॥ आनम्यानम्य तत्रस्थां स्वामिनः प्रतिमां ततः । साश्रुः सुरनरेशादिः स्वं स्वं स्थानं ययौ जनः ।। २५४ ॥ विद्याधरमुनेर्वाचमित्युपश्रुत्य दुःश्रवाम् । दशां दुःखमयीं कांचित्पाण्डवेयाः प्रपेदिरे ॥ २५५ ॥ जल्पन्ति स्म च भाग्यं नः सर्वथा प्रातिलोमिकम् । यन्न सीरसृता नापि स्वामिना संगमोऽभवत् ॥ २५६ ॥ त एव जगति स्तुत्यास्ते त्रिलोकीविशेषकाः । धन्या माता तदीयैव तज्जन्मैव फलेग्रहि ॥ २५७ ॥ येषां दीक्षोत्सवः स्वामिपाणिना पावितोऽभवत् । अविश्रान्तं पिबन्ति स स्वामिवागमृतं च ये ॥ २५८ ॥ (युग्मम्) धन्येष्वपि हि धन्यास्ते ते च श्वाध्यतमाः सताम् । खामिनैव समं येषां निर्वाणमहिमाप्यभूत् ॥ २५९ ॥ इयतापि कृतार्थत्वं यद्रतं समपादि नः । चेत्तु प्रभुरपीक्ष्येत तत्स्यात्तस्यापि मञ्जरी ॥२६०॥ प्रमोर्वागमृतैश्चेन्न सिच्येतायं तपस्तरुः । ततो वामनसातीतं किमप्येष फलं ध्रुवम् ॥ २६१ ॥ किं पुनर्भाग्यशून्यानां फलन्ति न मनोरथाः। न जातु स्याद्दरिद्रस्य कल्पद्रुमसमागमः ॥२६२ ।। तत्तावजगृहेऽस्माभिर्दुस्तरोऽयमभिग्रहः । यद्वयं पारयिष्याम दृष्टे स्वामिनि नान्यथा ॥ २६३ ।।