पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। यथास्थानं समासीनसुरासुरनरेश्वरे । सिंहासनमलंकृत्य कृत्यवित्पूर्वदिङ्मुखम् ॥ २३९॥ मोक्षं प्रति प्रतिष्ठासुर्विश्वानुग्रहकाम्यया । चिरं चकार भगवानन्तिमां धर्मदेशनाम् ॥ २४०॥ प्रतिबुद्धास्तया केचिद्रतमाददिरे क्षणात् । श्रावकत्वं परे भेजुरन्ये भद्रकतां पुनः ॥ २४१ ।। ततः परीतः साधूनां षट्त्रिंशैः पञ्चभिः शतैः । पादपोपगम चक्रे मासिकानशनं विभुः ॥ २४२॥ . ततः शुचिसिताष्टम्यां चित्रायां चित्रिताशयैः संगतः परितः शक्रप्रमुखैस्त्रिजगज्जनैः ॥ २४३ ॥ साधुभिः सहितः शुद्धशैलेशीध्यानबन्धुरः। आशु लम्भितवान्सर्वं कर्मजातं निरंशताम् ॥ २४४ ॥ साग्रमब्दसहस्रायुर्जगदेकदिवाकरः । निर्व्यायाधसुखं स्वामी निर्वाणपदवीं ययौ ।। २४५ ॥ ततः कुमाराः प्रद्युम्नसाम्बाद्याः सत्त्वशालिनः । रथनेम्यादयः खामिभ्रातरश्च तरस्विनः ।।.२४६ ।। कृष्णस्याष्टौ महिष्यश्च तथैव मुनयोऽपरे । साध्व्यश्च राजीमत्याद्या भूयस्यः शिवमासदन् ।।.२४७ ॥ प्रभोर्माता शिवादेवी समुद्रविजयः पिता । सहैव सर्वैर्दाशाहदेवभूयमुपाययुः ॥ २४८ ॥ (युग्मम्) कुबेरः शिबिकां शक्रशासनाव्द्याकरोत्क्षणात् । हरिर्विधिवदभ्यर्च्य न्यधात्तस्यां वपुः प्रभोः ॥ २४९ ॥ गोशीर्षचन्दनाद्यैश्च काष्ठै रत्नशिलातले । वितेनुर्दिशि नैर्ऋत्यां त्रिविष्टपसदश्चिताम् ।। २५० ।। उत्पाद्य शिविकां तत्र नीत्वा तस्यां विभोर्वपुः । स्वयं तस्याग्निसंस्कारं वासवोऽकारयत्सुरैः ॥ २५१ ॥