पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ७०९ अविश्रान्तं व्रजन्तस्ते दर्शनोस्कण्ठिताः प्रभोः। हस्तिकल्प पुरं जग्मुर्मासक्षपणपारणे ॥ २२६ ॥ नगरेऽस्मिन्विशन्तस्ते धर्मघोषमुनीश्वरम् । व्यज्ञापयन्निति प्रीत्या निपत्याङ्घ्रिसरोरुहे ।। २२७ ॥ प्रभो रैवतकोऽमुष्मात्पुराद्वादशयोजनी । प्रगतनप्रयाणेन तत्र प्रायो गमिष्यते ॥ २२८ ।। तद्दृष्टे विटपाधीशे पारणाविधिरस्तु नः । इत्यभिग्रहमातेनुस्ते तरङ्गितसंमदाः ॥ २२९ ॥ प्रविश्याथ पुरे तस्मिन्नुज्जयन्तगिरेर्यथा । जनानागच्छतो वीक्ष्य श्यामीभूतास्यपङ्कजान् ॥ २३०॥ क्षणं यावदमी तस्थुः किंचिचकितचेतसः । चारणः श्रमणः कश्चित्तावदागाद्विहायसा ॥ २३१ ।। परिम्लानमुखो धर्मघोषाय विहितानतिः । प्रणम्य पाण्डवैः पृष्टः स व्याचष्टेति शिष्टधीः ॥ २३२ ॥ सनकर्मारिरासन्नं ज्ञात्वा निर्वाणमात्मनः । भगवान्समधासार्षीदेत्य रैवतकाचले ॥ २३३ ॥ रूप्यकाञ्चनमाणिक्यमयं वप्रत्रयाङ्कितम् । नानामणिप्रभाजालं केलिमिर्लप्तगोपुरम् ॥ २३४ ॥ सर्वतो रत्नभित्त्यन्तःसंक्रान्तप्रतिमाच्छलात् । एकाशोकमपि व्याप्तमशोकविपिनैरिव ॥ २३५ ।। आनन्दानामुपादानं निदानं पुण्यसंपदाम् । सुरा विरचयांचक्रुर्देशनागारमन्तिमम् ।। २३६ ॥ (त्रिभिर्विशेषकम्) विकुर्वन्ति स गीर्वाणाः ककुप्सु चतसृष्वपि । तस्यान्त रिमाणिक्यमासुरां चतुरासनीम् ।। २३७ ।। ततोऽस्मिन्नुल्लसद्धर्मध्वजमञ्जरिताङ्गणे । राकाहिमकराकार""जैत्रत्रयोल्बणे ॥ २३८ ॥